________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२४३
घातोर्व्यञ्जनान्तात् परस्य 'योऽशिति प्रत्यये लुक्' स्यात् । जङ्गमिता । व्यञ्जनादित्येव- लोलूयिता । अशितीति किम् ? बेमियते ||८०॥
क्यो वा ॥४॥३८॥ घातोळजनान्तात् परस्य 'क्योऽशिति प्रत्यये लुग वा' स्यात् । समिधिष्यति, समिध्यिष्यति; दृषदिष्यते, दृषधिष्यते ॥८॥
अतः ।४।३१८२॥ अदन्ताद् धातोविहितेऽशिति प्रत्यये 'धातोरतो लुक् स्यात् । कथयति । विहितविशेषणं किम् ? गतः ॥२॥
णेरनिटि ।४।३।८३॥ अनिट्यशिति प्रत्यये 'णेर्लुक्' स्यात् । अततक्षत, चेतनः । अनिटीति किम् ? कारयिता ॥३॥
सेटूक्तयोः ।।३।८४॥ सेटोः क्तयोः परयो-'गेल्क् स्यात् । कारितः, गणितवान् ॥४॥
आमन्ताऽऽल्वाऽऽय्येत्नावय ४१३८५। एषु परेषु णेरय' स्यात् । कारयाधकार, गण्डयन्तः, स्पृहयालुः, महयाय्यः, स्तनयिलुः ॥८५॥
___ लघोर्यपि ॥३॥८६॥ रुघोः परस्य ‘णेपि अय्' स्यात् । प्रशमय्य । लघोरिति किम् ? प्रतिपाद्य ॥८६॥
वाऽऽप्नोः ।४।३।८७॥ आप्नोः परस्य 'णेर्यप्यय वा' स्यात् । प्रापय्य, प्राप्य । आप्नोरिति किम् ? अध्याय ॥८७॥