________________
२४२
श्रीसिद्महेमचन्द्रशब्दानुशासनम्
'अस्तेः सः सादी प्रत्यये लुक् स्यात्, एति तु सो हः' । असि, व्यतिसे, व्यतिहे, भावयामाहे ॥७३॥
दुह-दिह-लिह-गृहो दन्त्यात्मने वा सकः ।।१३।७४॥ एभ्यः परस्य ‘सको दन्त्यादी आत्मनेपदे लुग् वा स्यात् । अदुग्ध, अधुक्षत; अदिग्ध, अधिक्षत; अलीदाः, अलिक्षथाः; न्यगुरुहि, न्यघुक्षावहि । दन्त्य इति किम् ? अधुक्षामहि ॥७॥
स्वरेऽत्तः ॥४॥३७५॥ 'सकोऽस्य स्वरादी प्रत्यये लुक्, स्यात् । अधुक्षाताम् ॥७॥
दरिद्रोऽयतन्यां वा ४॥३७६॥ 'दरिद्रोऽयतन्यां विषये लुग वा स्यात् । अदरिद्रीत्, अदरिद्रासीत् ॥७६।।
अशित्यस्सन्-णक-णकाऽनटि ।।१३७७॥ सादिसनादिवले अशिति विषये 'दरिद्रो लुक् स्यात् । दुरिद्रम् । अशितीति किम् ? दरिद्राति । सत्रादिवर्जनं किम् ? दिदरिद्रासति, दरिद्रायको याति, दरिद्रायकः, परित्राणम् ॥७७॥
व्यानाद् देः सश्च दः ४३३७८॥ धातोर्व्यञ्जनान्तात् परस्य 'दे क् स्यात्, यथासम्भवं धातोः सो दश्च' | अघकात, अजागः, अविमः, अन्वशात् । व्यअनादिति किम् ? अयात् ॥
सेः स्-द-पां च रुर्वा ॥३॥७९॥ व्यअनान्ताद् धातोः परस्य 'से क् स्यात्, यथासम्भवं स-द-धां वा रुश्च' । अधकास्त्वम्, अघकात् त्वम् अभिनस्त्वम्, अभिनत् त्वम्; अरुणस्त्वम्, अरुणत् त्वम् ॥७९॥
योऽशिति ॥३८॥