________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२४९ स्वरान्तादुपसर्गात् परस्य धावर्जस्य दासंज्ञस्य तादौ किति 'त्तो नित्यम्' स्यात् । प्रत्तः, परीत्रिमम् । उपसर्गादिति किम् ? दधि दत्तम् । स्वरादिति किम् ? निर्दत्तम् । द इति किम् ? प्रदाता व्रीहयः । तीति किम् ? प्रदाय । अध इति किम् ? निधीतः ॥९॥
दत् ।४।४।१०॥ अधो दासंज्ञस्य तादौ किति 'दत्' स्यात् । दत्तः, दत्तिः । अध इत्येवधीतः ॥१०॥
दो-सो-मा-स्थ इ. ४।४।११॥ एषां तादौ किति 'इ:' स्यात् । निर्दितः, सित्वा, मितिः, स्थितवान् ॥११॥
छा-शोर्वा ।४।४।१२॥ छा-शोस्तादौ किति 'इर्वा' स्यात् । अवच्छितः, अवच्छातः; निशितः, निशातः ॥१२॥
शो व्रते ४४१३॥ श्यतेः ते व्रतविषये प्रयोगे नित्यम् 'इ.' स्यात् । संशितं व्रतम्, संशितः साधुः ॥१३॥
हाको हिः क्वि ।४।४१४॥ हाकस्तादौ किति क्त्वायाम् 'हिः' स्यात् । हित्वा । क्त्वीति किम् ? हीनः । तीत्येव- प्रहाय ॥१४॥
धागः ४४१५॥ धागस्तादौ किति 'हिः' स्यात् । विहितः, हित्वा ॥१५॥
यपि चाऽदो जग्धू ।४।४।१६॥ तादौ किति यपि चा-'ऽदेणग्ध्' स्यात् । जन्धिः, प्रजग्ध्य ॥१६॥