________________
श्रीसिदहेमचन्द्रशब्दानुशासनम्
२३७
-
हन्तेरामनेपदविषयः 'सिच् किद्वत्' स्यात् । आहत ॥३८॥
यमः सूचने ॥४॥३॥३९॥ सूचनार्थाद् यमेरात्मनेपदविषयः 'सिन् किद्वत्' स्यात् । उदायत । सूचन इति किम् ? आयंस्त रज्जुम् ।।३९॥
वा स्वीकृतौ ।४।३।४०॥ स्वीकारार्थाद् यमेरात्मनेपदविषयः 'सिच् किद्वद्वा' स्यात् । उपायत, उपायंस्त महास्त्राणि । स्वीकृताविति किम् ? आयंस्त पाणिम् ॥४०॥
इश्च स्था-दः ॥३॥४१॥ स्थो दासंज्ञकाघाऽऽत्मनेपदविषयः 'सिच् किद्वत् स्यात्, तद्योगे स्थादोरिश्च' । उपास्थित, आदित, व्यधित ॥४१॥
मृजोऽस्य वृद्धिः ॥४॥३॥४२॥ 'मृजेर्गुणे सति अस्य वृद्धिः' स्यात् । मार्टि । अत इति किम् ? मृष्टः ॥
ऋतः स्वरे वा ॥४॥३॥४३॥ मृजे ऋतः स्वरादी प्रत्यये 'वृद्धिर्वा' स्यात् । परिमार्जन्ति, परिमृजन्ति ऋत इति किम् ? ममार्ज । स्वर इति किम् ? मृज्वः ॥४३॥
सिचि परस्मै समानस्याऽडिति ॥३॥४४॥ समानान्तस्य धातोः परस्मैपदविषये सिच्यडिति 'वृद्धिः' स्यात् । अचैषीत् । परस्मै इति किम् ? अच्योष्ट । समानस्येति किम् ? अगवीत् । अङितीति किम् ? न्यनुवीत् ॥४४॥
व्यञ्जनानामनिटि ४॥३॥४५॥ व्यञ्जनान्तस्य धातोः परस्मैपदविषये अनिटि सिचि समानस्य ‘वृद्धिः' स्यात् । अराक्षीत् । समानस्येत्येव - उदवोनम् । अनिटीति किम् ?