________________
२३८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अतक्षीत् ॥४५॥
वोर्गुगः सेटि ।४।३।४६॥ ऊोः सेटि सिचि परस्मैपदे 'वृद्धिर्वा' स्यात् । प्रौर्णावीत्, प्रौर्णवीत्, प्रौण्णुवीत् ॥४६॥
व्यञ्जनादेर्योपान्त्यस्याऽतः ॥४॥३॥४७॥ व्यञ्जनादेर्धातोरुपान्त्यस्याऽतः सेटि सिचि परस्मैपदे 'वृद्धिर्वा' स्यात् । अकाणीत, अकणीत् । व्यसनादेरिति किम् ? मा भवान् अटीत् । उपान्त्यस्येति किम् ? अवधीत् । अत इति किम् ? अदेवीत् । सेटीत्येव - अधाक्षीत् ॥४७॥
वद-व्रज-ट्रः ॥४॥३॥४८॥ वद-व्रजोर्लन्त-रन्तयोश्चोपान्त्यस्याऽस्य परस्मैपदे सेटि सिचि 'वृद्धिः' स्यात् । अवादीत्, अव्राजीत्, अज्वालीत्, अक्षारीत् ॥४८॥
न श्वि-जागृ-शस-क्षणम्येदितः ॥३॥४९॥ एषां हम्यन्तानाम् एदितां च परस्मैपदे सेटि सिचि 'वृद्धिर्न' स्यात् । अश्वयीत्, अजागरीत, अशसीत्, अक्षणीत्, अग्रहीत्, अवमीत्, अहयीत्, अकगीत् ॥४९॥
णिति ॥४॥३॥५०॥ जिति णिति च परे धातोरुपान्त्यस्याऽतो 'वृद्धिः' स्यात् । पाकः, पपाच ॥
नामिनोऽकलि-हलेः ॥४॥३॥५१॥ नाम्यन्तस्य धातोर्नाम्नो वा कलि-हलिवर्जस्य णिति 'वृद्धिः' स्यात् । अचायि, कारकः, अपीपटत् । कलि-हलिवर्जनं किम् ? अचकलत, अजहलत् ।।
जागुर्बिणवि १३.५२॥ जागुणी णव्येव च णिति 'वृद्धिः' स्यात् । अजागारि, जजागार । त्रिण