________________
२३६
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
क्षुध-किश-कुष-गुष-मृड-मृद-वद-वसः ॥४॥३॥३१॥ एभ्यः ‘क्त्वा सेट् किद्वत्' स्यात् । क्षुधित्वा, विशित्वा, कुषित्वा, गुधित्वा, मृडित्वा, मृदित्वा, उदित्वा, उषित्वा ॥३१॥
रुद-विद-मुष-ग्रह-स्वप-प्रच्छः सन् च ।४॥३॥३२॥ एभ्यः क्त्वा सन् च किद्वत्' स्यात् । रुदित्वा, रुरुदिषति; विदित्वा, विविदिषति; मुषित्या, मुमुषिषति; गृहीत्या, जिघृक्षति, सुत्या, सुषुप्सति; पृष्ट्या, पिपृच्छिषति ॥३२॥
नामिनोऽनिट् ॥४॥३॥३३॥ 'नाम्यन्ताद्धातोरनिट् सन् किद्वत्' स्यात् । चिचीपति । अनिडिति किम् ? शिशयिषते ॥३३॥
उपान्त्ये ४॥३॥३४॥ नामिन्युपान्त्ये सति 'धातोः सन् अनिट् किद्वत्' स्यात् । बिभित्सति ॥३४॥
सिजाशिषावात्मने ।४।३॥३५॥ नामिन्युपान्त्ये सति धातोरात्मनेपदविषयावनिटी 'सिजाशिषी किद्वत्' स्याताम् । अभित्त, मित्सीष्ट । आत्मने इति किम् ? असाक्षीत् ॥३५॥
ऋवर्णात् ॥४॥३॥३६॥ ऋवर्णान्ताद् धातोरनिटावात्मनेपदविषयौ 'सिजाशिषौ किद्वत्' स्याताम् । अकृत, कृषीट; अतीर्थ, तीर्षीट ॥३६॥
गमो वा ४३३३३७॥ गमेरात्मनेपदविषयौ 'सिजाशिषी किवता' स्याताम् । समगत, समगस्त; संगसीट, संगसीष्ट ॥३७॥
हनः सिन् ।४।२३॥