________________
श्रीसिद्धोमधनशम्यानुशासनम्
२३५ न तु य्वन्तात् । पुतित्वा, योतित्वा; दिघुतिषते, दियोतिषते; लिखित्वा, लेखित्वा; लिलिखिषति, ल्लेिखिषति । वाविति किम् ? वर्तित्वा । व्यञ्जनादेरिति किम् ? उषित्वा । अय्व इति किम् ? देवित्वा ॥२५॥
उति शवोऽयः क्तो भावाऽऽरम्भ ।४॥३॥२६॥ उति उपान्त्ये सति शव:म्योऽदादिभ्यश्च परी भायाऽऽरम्भयोः ‘क्त-क्तवतू सेटी वा किद्वत्' स्याताम् । कुधितम्, कोधितमनेन; प्रकुचितः, प्रकोचितः; प्रकुचितवान्, प्रकोचितवान् । रुदितम्, रोदितमेभिः; प्ररुदितः, प्ररोदितः; प्ररुदितवान् प्ररोदितवान् । उतीदि किम् ? श्चितितमेभिः । शवाय इति किम् ? प्रगुधितः । भावाऽऽरम्म इति किम् ? रुचितः ॥२६॥ ___ न डीङ्-शीट्-पूर-धृषि-विदि-स्विदि-मिदः ।४।३।२७॥ एभ्यः परी 'सेटौ क्त क्तवतू किडन' स्याताम् । इयितः, इयितवान; शयितः, शयितवान्, पवितः, पवितवान्। प्रधर्षितः, प्रधर्षितवान्; प्रक्ष्वेदितः, प्रक्ष्वेदितवान्। प्रस्वेदितः, प्रस्वेदितवान्ः प्रमेदितः, प्रमेदितवान् । सेटावित्येवडीनः, डीनवान् ॥२७॥
मृषः क्षान्तो ।४॥३॥२८॥ क्षमाऽमृषः 'सेटी क्त क्तवतू किन्न' स्याताम् । मर्षितः, मर्षितवान् । क्षान्ताविति किम् ? अपमृषितं वाक्यम् ॥२८॥
क्त्वा ॥४॥३॥२९॥ 'धातोः क्त्वा सेट् किन्न' स्यात् । देवित्वा । सेडित्येव- कृत्वा ॥२९॥
स्कन्द-स्पन्दः ॥४॥३॥३०॥ आभ्याम् ‘क्त्वा किद्वन्न' स्यात् । स्कन्त्वा, स्यन्त्वा ॥३०॥