________________
२३२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
उ-श्नोः ४॥३॥२॥ धातोरुश्नोः प्रत्यययोरक्छिति 'गुणः' स्यात् । तनोति, सुनोति ॥२॥
पुस-पौ ॥४॥३॥३॥ नाम्यन्तस्य धातोः पुसि पौ च 'गुणः' स्यात् । ऐयरुः, अर्पयति ॥३॥
लघोरुपान्त्यस्य ॥४॥३॥४॥ धातोरुपान्त्यस्य नामिनो लघोरक्डिति 'गुणः' स्यात् । भेत्ता । लघोरिति किम् ? ईहते । उपान्त्यस्येति किम् ? भिनति ॥४॥
मिदः श्ये ४३१५॥ मिदेरुपान्त्यस्य श्ये 'गुणः' स्यात् । मेधति ॥५॥
जागुः किति ।४।३।६॥ जागुः किति 'गुणः' स्यात् । जागरितः ॥६॥
ऋवर्ण-दृशोऽडि ॥४॥३७॥ ऋवर्णान्तानां दृशेश्चाऽङि परे ‘गुणः' स्यात् । आरत्, असरत्, अजरत्, अदर्शत् ॥७॥
स्कृच्छ्तोऽकि परोक्षायाम् ॥४॥३८॥ स्कृच्छोः ऋदन्तानां च नामिनः परोक्षायाम् 'गुणः' स्यात्, न तु कोपलक्षितायां क्वसु-कानोः । सञ्चस्करुः, आनछुः, तेरुः । अकीति किम् ? सधस्कृवान् ॥८॥
संयोगादृदः ॥४॥३॥९॥ संयोगात् परो य ऋत, तदन्तस्याऽर्तेश्च परोक्षायामकि 'गुणः' स्यात् । सस्मरुः, सस्वरुः, आरुः । संयोगादिति किम् ? चक्रुः ॥९॥
क्य-यडाऽऽशीयें ।४।३॥१०॥