________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२३३ संयोगाद् य ऋत्, तदन्तस्याऽर्तेश्च क्ये यडि आशीर्ये च 'गुणः' स्यात् । स्मर्यते, स्वर्यते, अर्यते; सास्मर्यते, सास्वर्यते, अरार्यते; स्मर्यात्, अर्यात् ॥
न वृद्धिश्चाऽविति क्डिल्लोपे ।४।३।११॥ अविति प्रत्यये यः कितो तिश्च लोपस्तस्मिन् सति ‘गुणो वृद्धिश्च न' स्यात् । चेच्यः, मरीमृजः ॥११॥
भवतेः सिजुलुपि ।४।३.१२॥ भुवः सिज्लुपि 'गुणो न' स्यात् । अभूत् । सिज्लुपीति किम् ? व्यत्यभविष्ट ॥१२॥
सूतेः पञ्चम्याम् ।४।३।१३॥ सूतेः पञ्चम्याम् 'गुणो न' स्यात् । सुवै ॥१३॥
ड्युक्तोपान्त्यस्य शिति स्वरे ।४।३।१४॥ युक्तस्य धातोरुपान्त्यस्य नामिनः स्वरादी शिति 'गुणो न' स्यात् । नेनिजानि । उपान्त्यस्येति किम् ? जुहवानि । शितीति किम् ? निनेज ॥
द्विणोरप्पिति -यौ ।४।३।१५॥ होरिणश्च नामिनः स्वरादावपिति अविति च शिति यथासंख्यम् 'व्यौ' स्याताम् । जुह्वति, यन्तु । अग्वितीति किम् ? अजुहः, अयानि ॥१५॥
इको वा ।४।३॥१६॥ इकः स्वरादावविति शिति 'य् वा' स्यात् । अधियन्ति, अधीयन्ति ॥१६॥
कुटादेर्डिद्वदणित् ।४॥३॥१७॥ कुटादेः परो णिद्वर्जप्रत्ययो 'द्वित्' स्यात् । कुटिता, गुता । अञ्णिदिति किम् ? उत्कोटः, उच्चुकोट ॥१७॥
विजेरिट् ।४॥३॥१८॥