________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२३१
आशिषि तु-दोस्तातङ् ।४।२।११९॥ 'आशीरथयोस्तुह्योस्तातङ् वा' स्यात् । जीवतात्, जीवतु भवान्; जीवतात्, जीव त्वम्; नन्दतात्, नन्द त्वम् । आशिषीति किम् ? जीवतु ॥
आतो णव औः ।४।२।१२०॥ आतः परस्य ‘णव औः' स्यात् । पपौ ॥१२०॥
आतामाते-आथामाथे आदिः ।४।२।१२१॥ आत् परेषामेषाम् ‘आत इ.' स्यात् । पचेताम्, पचेते, पचेयाम्, पचेथे । आदिति किम् ? मिमाताम् ॥१२१॥
यः सप्तम्याः ।४।२।१२२॥ आत् परस्य 'सप्तम्या याशब्दस्यः' स्यात् । पचेत्, पचेः ॥१२२॥
याम्-युसोरियमियुसौ ।४।२।१२३॥ 'आत् परयोर्याम्-युसोर्ययासंख्यमियमियुसौ' स्याताम् । पचेयम्, पचेयुः ।।
[१२३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिखोमचन्द्राभिधानस्वोपजशदानुशासन
लघुवृत्ती चतुर्थस्याध्यायस्य द्वितीयः पादः समाप्तः ॥१२॥ श्रीभीमपृतनोत्खात- रजोभिरिभूभुजाम् । अहो ! चित्रमवर्धन्त, ललाटे जलबिन्दवः ॥१४॥
तृतीयः पादः
नामिनो गुणोऽक्छिति ४॥३॥१॥ नाम्यन्तस्य धातोः द्विर्जे प्रत्यये 'गुणः' स्यात् । चेता । अक्कितीति किम् ? युतः ॥७॥