________________
२३०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् क्षाम्य, माघ । श्ये इति किम् ? भ्रमति ॥१११॥
ठिक्-सिवोऽनटि वा ।४।२।११२॥ ष्ठिव्-सिवोरनटि 'दीर्घो वा' स्यात् । निठीवनम्, निष्ठेवनम्; सीवनम्, सेवनम् ॥११२॥
म-व्यस्याः ।४।२।११३॥ धातोविहिते मादौ वादी चा-'ऽत आ दीर्घः' स्यात् । पचामि, पचावः, पचामः ॥११३॥
अनतोऽन्तोऽदात्मने ।४।२।११४॥ अनतः परस्याऽऽत्मनेपदस्थस्या'ऽन्तोऽत्' स्यात् । चिन्वते । आत्मनेपद इति किम् ? चिन्वन्ति । अनत इति किम् ? पचन्ते ॥११४॥
शीडो रत् ।४।२।११५॥ शीङः परस्याऽऽत्मनेपदस्थस्या'ऽन्तो रत् स्यात् । शेरते ॥११५॥
वेत्तेर्नवा ।४।२।११६॥ वेत्तेः परस्यात्मनेपदस्थस्या 'ऽन्तो रद् वा' स्यात् । संविद्रते, संविदते ॥
तिवां णवः परस्मै ।४।२।११७॥ 'वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव गवादयो नव यथासंख्यं वा' स्युः । वेद, विदतुः, विदुः; वेत्य, विदयुः, विद; वेद, विद्व, विद्य । पले- वेत्तीत्यादि ॥११७॥
ब्रूगः पञ्चानां पञ्चाऽऽहश्च ।।२।११८॥ 'ब्रूगः परेषां तिवादीनां पञ्चानां यथासंख्यं पञ्च णवादयो वा स्युः, तद्योगे ब्रूग आहश्च' । आह, आहतुः, आहुः, आत्य, आयुः । पक्षेब्रवीतीत्यादि ॥११॥