________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२२९
प्वादेर्हस्वः ।४।२।१०५॥ 'प्यादेः शिति अत्यादौ ह्रस्वः' स्यात् । पुनाति, लुनाति । प्वादेरिति किम् ? व्रीणाति ॥१०५॥
गमिषयमश्छः ।४।२।१०६॥ एषां शित्यत्यादौ 'छ:' स्यात् । गच्छति, इच्छति, यच्छति, आयच्छते । अत्यादाविति किम् ? जङ्गन्ति ॥१०६॥
वेगे सत्तेर्धात् ।४।२।१०७॥ सर्ते.गे गम्ये शिति 'धात्' स्यात्, अत्यादौ । धावति । वेग इति किम् ? धर्ममनुसरति ॥१०७।।
श्रौति-कृवु-धिवु-पा-मा-मा-स्था-म्ना-दाम-दृश्यति-शदसदः शृ-कृ-धि-पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्यर्छ
शीय-सीदम् ।४।२।१०८॥ एषां शित्यत्यादौ ययासंख्यम् 'श्रादयः' स्युः । शृणु, कृणु, धिनु, पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, शीयते, सीद ॥१०८॥
क्रमो दीर्घः परस्मै ।४।२।१०९॥ क्रमः परस्मैपदनिमित्ते शिति 'दीर्घः' स्यात्, अत्यादौ । काम, क्राम्यति । परस्मैपद इति किम् ? आक्रमते सूर्यः ॥१०९॥
ष्ठिवू-कुम्वाऽऽचमः ।४।२।११०॥ एषां शित्यत्यादौ 'दीर्घः' स्यात् । ठीव, काम, आचाम । आङिति किम् ? चम ॥११॥
शमसप्तकस्य श्ये ।४।२।१११॥ शमादीनां सप्तानां श्ये 'दीर्घः' स्यात् । शाम्य, दास्य, ताम्य, श्राम्य, भ्राम्य,