________________
२२६
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
वित्तं धन-प्रतीतम् ।।२।८२॥ 'विन्दतेः परस्य क्तस्य नत्वाभावो निपात्यते, धन-प्रतीतयोः पर्यायश्चेत्' वित्तं धनम्, वित्तः प्रतीतः । धन-प्रतीतमिति किम् ? विनः ॥८२॥
हु-धुटो हेधिः ।४।२।८३॥ होधुंडन्ताच परस्य 'हेधिः' स्यात् । जुहुधि, विद्धि ॥८३॥
शासस-हनः शाध्येषि-जहि ।४।२।८४॥ शास्-अस्-हनां हन्तानां यथासंख्यम् 'शाध्येधि-जहयः' स्युः । शाधि, एधि, जहि ॥८४॥
अतः प्रत्ययाल्लुक् ।४।२१८५॥ धातोः परो योऽदन्तः प्रत्ययस्ततः परस्य 'हे क्स्यात् । दीव्य । अत इति किम् ? राध्नुहि । प्रत्ययादिति किम् ? पापहि ॥८५॥
असंयोगादोः ।।२।८६॥ असंयोगात् परो य उस्तदन्तात् प्रत्ययात् परस्य 'हे क् स्यात् । सुनु । असंयोगादिति किम् ? अष्णुहि । ओरिति किम् ? क्रीणीहि ॥८६॥
वम्यविति वा ।४।२८७॥ 'असंयोगात् परो य उस्तदन्तस्य प्रत्ययस्य लुग वा' स्यात्, वमादौ अविति परे । सुन्वः, सुनुवः; सुन्मः, सुनुमः । अवितीति किम् ? सुनोमि । असंयोगादित्येव- तक्ष्णुवः ॥८७॥
कृगो यि च ॥२८॥ 'कृगः परस्योतो यादौ वमि चाऽविति लुक्' स्यात् । कुर्युः, कुर्वः, कुर्मः ॥८॥
अतः शित्युत् ।।२।८९॥