________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२२७
शित्यविति य उस्तन्निमित्तस्य 'कृगोऽत उ:' स्यात् । कुरु । अवितीत्येव -
करोति ॥८९॥
श्ना - ऽस्त्योर्लुक् |४|२|९०॥
'नस्य अस्तेश्चाऽतः शित्यविति लुक् स्यात् । रुन्धः स्तः । अत इत्येवआस्ताम् ॥९०॥
वा द्विषाऽऽतोऽनः पुत्र |४| २|९१ ॥
द्विष आदन्ताच्च परस्य 'शितोऽवितोऽनः स्थाने पुस् वा स्यात् । अद्विषुः, अद्विषन्; अयुः, अयान् ॥९१॥
सिजू - बिदोऽभुवः |४|१२|९२ ॥
सिच्प्रत्ययाद् विदश्च धातोः परस्य 'अनः पुस् स्यात्, न चेद् भुवः परः सिच् स्यात्' । अकार्षुः अविदुः । अभुव इति किम् ? अभूवन् ॥९२॥
द्रूयुक्त - जक्षपञ्चतः ॥४२॥९३॥
कृतद्वित्वाद् जक्षपञ्चकाच परस्य ' शितोऽवितोऽनः पुस्' स्यात् । अजुहवुः, अजक्षुः, अदरिदुः, अजागरुः, अचकासुः, अशासुः ॥ ९३ ॥ अन्तो नो लुक् |४| २|९४ ॥
द्वयुक्त - जक्षपञ्चकात् परस्य ' शितोऽवितोऽन्तो नो लुक् स्यात् । जुह्वति, जुह्वत्; जक्षति, जक्षत्; दरिद्रति, दरिद्रत् ॥९४॥
शौ वा | ४|२| ९५ ॥
हयुक्त - जक्षपञ्चकात् परस्या' - ऽन्तो नः शिविषये लुग् वा स्यात् । ददति ददन्ति कुलानि; जक्षति, जक्षन्ति दरिद्रति, दरिद्रन्ति ॥ ९५ ॥
श्नश्चाऽऽतः |४|२|९६ ॥
'इयुक्त - जक्षपश्ञ्चतः श्नश्च 'शित्यवित्यातो लुक् स्यात् । मिमते, दरिद्रति,