________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२२५ आक्रोशे दैन्ये च गम्ये क्षेः परस्याऽघ्यार्थे 'क्तयोस्तो न् वा स्यात्, तद्योगे क्षेः क्षीश्च' । क्षीणाऽऽयुः, क्षिताऽऽयुर्जाल्मः । क्षीणकः, तितकस्तपस्वी ॥७५ ॥
ऋ-ही-घ्रा-ध्रा-त्रोन्द-नुद-विन्तेर्वा ।४।२१७६॥ एभ्यः परस्य 'क्तयोस्तो न् वा' स्यात् । ऋणम्, ऋतम्; हीणः, ह्रीतः; हीणवान्, ह्रीतवान्; घ्राणः, घ्रातः, ध्राणः, ध्रातः; त्राणः, त्रातः; समुत्रः, समुत्तः; नुन्नः, नुत्तः; वित्रः, वित्तः ॥७६।।
दु-गोरू च ।४।२।७७॥ दु-गुभ्यां परस्य 'क्तयोस्तो न स्यात्, तद्योगे दुगोरुश्च' । दूनः, दूनवान्, गूनः, गूनवान् ॥७७॥
-शुषि-पचो म-क-वम् ।४।२७८॥ एभ्यः परस्य ‘क्तयोस्तो यथासङ्ख्यं म-क-वाः' स्युः । क्षामः, क्षामवान्; शुष्कः, शुष्कवान्; पक्वः, पक्ववान् ।।७८॥
निर्वाणमवाते ।४।२।७९॥ अवाते कतरि निपूर्वाद् वातेः परस्य 'क्तयोस्तो न् निपात्यते' । निर्वाणो मुनिः । अवात इति किम् ? निर्वातो वातः ॥७९॥ अनुपसर्गाः क्षीबोलाघ-कृश-परिकृश-फुल्लोत्फुल्ल-संफुल्लाः
४२८०॥ 'अनुपसर्गाः क्तान्ता एते निपात्यन्ते' । क्षीबः, उल्लाघः, कृशः, परिकृशः, फुल्लः, उत्फुल्लः, संफुल्लः । अनुपसर्गा इति किम् ? प्रक्षीबितः ॥८०॥
भित्तं शकलम् ।४।२।८१॥ 'भिदेः परस्य तस्य नत्वाभावो निपात्यते, शकलपर्यायश्चेत्' । भित्तं शकलमित्यर्थः । शकलमिति किम् ? भिन्न भित्तम् ॥८॥