________________
२२४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
"
पूर्णः पूर्णवान् भिन्नः भिन्नवान् । अमूर्च्छमद इति किम् ? मूर्तः, मत्तः रदात्तस्येति किम् ? चरितम्, मुदितम् ॥६९॥
सूयत्याद्योदितः |४| २|७०॥
सूयत्यादिभ्यो नवभ्य ओदिभ्यश्च परस्य 'क्तयोस्तो नः' स्यात् । सूनः सूनवान् दून: दूनवान्, लग्न, लग्नवान् ॥७०॥
व्यञ्जनान्तस्थाऽऽतोऽख्या - ध्यः |४|२|७१ ॥
,
ख्या- ध्यावर्जस्य धातोर्यद्व्यञ्जनं तस्मात् परा याऽन्तस्था, तस्याः परो य आः, तस्मात् परस्य 'क्तयोस्तो नः' स्यात् । स्त्यानः स्त्यानवान् । व्यञ्जन इति किम् ? यातः । अन्तस्था इति किम् ? स्नातः । आत इति किम् ? च्युतः । धातोर्व्यञ्जनेति किम् ? निर्यातः । अख्याध्य इति किम् ? ख्यातः, ध्यातः । आतः परस्येति किम् ? दरिद्रितः ॥ ७१ ॥
पू-दिव्यञ्चैर्नाशा ऽद्यूता ऽनपादाने | ४|२|७२ ॥
एभ्यो यथासङ्ख्यं नाशाद्यर्थेभ्यः परस्य 'क्तयोस्तो नः' स्यात् । पूना यवाः, आधूनः, समक्नी पक्षी । नाशा ऽद्यूता ऽनपादान इति किम् ? पूतम्, धूतम्, उदक्तं जलम् ॥७२॥
सेग्रसे कर्म्मकर्त्तरि |४| २|७३ ॥
सेः परस्य 'क्तयोस्तो ग्रासे कर्मकर्तरि नः' स्यात् । सिनो ग्रासः स्वयमेव । कर्म्मकर्त्तरीति किम् ? सितो ग्रासो मैत्रेण ॥७३॥
क्षेः क्षी चाऽष्यार्थे |४|२|७४ ॥
घ्यणोऽर्थो भावकर्म्मणी, ततोऽन्यस्मिन्नर्थे 'क्तयोस्तः क्षेः परस्य नः स्यात्, तद्योगे क्षेः क्षीश्व' । क्षीणः क्षीणवान् मैत्रः । अध्यार्थे इति किम् ? क्षितमस्य ॥७४॥
"
वाऽऽक्रोश- दैन्ये | ४|२|७५ ॥