________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२२३ सनि ।४।२।६१॥ एषां धुडादौ सनि आः' स्यात् । सिषासति । धुटीत्येव-सिसनिषति ॥
ये नवा ।४।२१६२॥ एषां ये डिति आ वा' स्यात् । खायते, खन्यते; चाखायते, चान्यते; सायते, सन्यते; प्रजाय, प्रजन्य । कितीत्येव- सान्यम्, जन्यम् ॥६२ ॥
तनः क्ये ।४।२।६३॥ 'तनः क्ये आ वा' स्यात् । तायते, तन्यते । क्य इति किम् ? तन्तन्यते ॥३॥
तौ सनस्तिकि ।।२।६४॥ सनस्तिकि तौ- 'लुगातौ वा' स्याताम् । सतिः, सातिः, सन्तिः ॥६४॥
वन्याङ् पञ्चमस्य ॥४॥२॥६५॥ पञ्चमस्य वनि 'आङ्' स्यात् । विजावा, घ्यावा ॥६५॥
अपाचायधिः क्तौ ।४।२।६६॥ अपपूर्वस्य चायतेः क्तौ 'चिः' स्यात् । अपचितिः ॥६६॥
दादो ह्रद् क्तयोश्च ।४।२।६७॥ हादेः क्त-क्तवतोः क्तौ च 'इद्' स्यात् । अत्रः, अन्नवान्, कत्तिः ॥६७॥
अल्वादेरेषां तो नोऽमः ।४।२।६८॥ पवर्जाद् ऋदन्ताद् ल्वादिभ्यश्च परेषाम् ‘क्ति-क्त-क्तवतूनां तो नः' स्यात् । तीणिः, तीर्णः, तीर्णवान्; लूनिः, लूनः, लूनवान्; धूनिः, धूनः, धूनवान् । अप्र इति किम् ? पूर्तिः, पूर्तः, पूर्तवान् ॥६॥
रदादमूर्छ-मदः क्तयोर्दस्य च ।२।६९॥ मूर्छि मदिवर्जाद् रदन्तात् परस्य 'क्तयोस्तस्य तद्योग धातुदश्च नः' स्यात् ।