________________
२२२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
दशना-ऽवोदैधौद्म-प्रश्रय-हिमश्रथम् ।४।२।५४॥ 'एते नलुगादौ कृते निपात्यन्ते' । दशनम्, अवोदः, एधः, ओमः प्रश्रयः, हिमश्रयः ॥५४॥ यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्छिति
४॥२॥५५॥ "एषां तनादीनां च धुडादौ क्झिति लुक्' स्यात् । यतः, रत्वा, नतिः, गतः, हतः, मतः, वतिः, ततः, क्षतः । धुटीति किम् ? यम्यते । ङितीति किम् ? यन्ता ॥५५॥
यपि ।४।२।५६॥ 'यम्यादीनां यपि लुक्' स्यात् । प्रहत्य, प्रमत्य, प्रवत्य, प्रतत्य, प्रसत्य ॥
वा मः ।४।२।५७॥ 'यम्यादीनां मान्तानां यपि वा लुक्' स्यात् । प्रयत्य, प्रयम्य; विरत्य, विरम्य; प्रणत्य, प्रणम्य; आगत्य, आगम्य ॥५७॥
गमां क्वौ ।४।२।५८॥ 'एषां गमादीनां यथादर्शनं क्वौ क्छिति लुक् स्यात् । जनङ्गत्, संयत्, परीतत्, सुमत, सुवत् ॥५॥
न तिकि दीर्घश्च ।।२।५९॥ 'एषां तिकि लुग् दीर्घश्च न' स्यात् । यन्तिः, रन्तिः, नन्तिः, गन्तिः, हन्तिः, मन्तिः, वन्तिः, तन्तिः ॥५९॥
आः खनि-सनि-जनः ॥२६॥ 'एषां धुडादौ विडति आः' स्यात् । खातः, सातः, जातः, जातिः । क्तिीत्येव- चान्ति । धुटीत्येव- जनित्वा ॥६०॥