________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१५
पदान्तस्थस्य रस्य च-ट- तेषु सद्वितीयेषु परेषु यथासंख्यम् 'श-ष-सा नित्यं' स्युः । कश्चरः कश्छन्नः, कष्टः, कष्ठः, कस्तः, कस्थः ॥७॥
नोऽप्रशानोऽनुस्वाराऽनुनासिकौ च पूर्वस्याऽधुट्परे
19131211
पदान्तस्थस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य च-ट-तेषु सद्वितीयेषु अधुट्परेषु, 'श-ष- सा' यथासंख्यं स्युः, 'अनुस्वाराऽनुनासिकौ चाऽऽगमाऽऽदेशी' पूर्वस्य क्रमेण स्याताम् । भवांश्वरः, भवाँश्वरः । भवांश्छ्यति, भवाँश्छ्यति । भवांष्टकः भवाँष्टकः । भवांष्ठकारः भवाँष्ठकारः । भवांस्तनुः भवाँस्तनुः । भवांस्युडति भवस्थुडति । अप्रशान् इति किम् ? प्रशाञ्चरः । अधुट्पर इति किम् ? भवान्त्सरुकः ||८||
"
?
मोऽशिट्यघोषे ऽख्यागि रः | १|३|९|| ४६० बा२ ला 'पुम्' इति पुंसः संयोगलुक्यनुकरणम्, अधुट्परे अघोषे शिट्-ख्यागिवर्जे परे 'पुम्' इत्येतस्य 'र: ' स्यात्, अनुस्वारानुनासिकौ च पूर्वस्य । पुंस्कामा, पुंस्कामा | अशिटीति किम् ? पुंशिरः । अघोषे इति किम् ? पुंदासः । अख्यागीति किम् ? पुंख्यातः । अधुट्पर इत्येव - पुंक्षारः ||९|| नूनः पेषु वा |१| ३|१०॥
'नुन्' इति शसन्तस्यानुकरणम् । नुनः पे परे 'रो वा' स्यात्, अनुस्वारानुनासिकौ च पूर्वस्य । नं) (पाहि, नू) (पाहि, नूँ: पाहि नुन्पाहि ||१०|| द्विः कानः कानि सः | १|३|११||
कानः किमः शसन्तस्यानुकरणम् । द्विरुक्तस्य कानः कानि परे 'सः' स्यात्, अनुस्वारानुनासिकौ च पूर्वस्य । कांस्कान्, काँस्कान् । द्विरिति किम् ? कान् कान् पश्यति ॥११॥
स्सटि समः |9|३॥१२॥