________________
-
१४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
(तृतीयः पादः)
तृतीयस्य पञ्चमे ।१३।१॥ वेति पदान्त इति अनुनासिक इति च अनुवर्तते । वर्गतृतीयस्य पदान्तस्थस्य पञ्चमे परे अनुनासिको वा' स्यात् । वाङ्वते वाग्ङवते ककुम्मण्डलम्, ककुमण्डलम् ।।१।।
प्रत्यये च ।११३॥२॥ पदान्तस्थस्य तृतीयस्य प्रत्यये पञ्चमे परे अनुनासिको नित्यं' स्यात् । वाङ्मयम्, षण्णाम् । च उत्तरत्र वाऽनुवृत्त्यर्थः ॥२॥
ततो हश्चतुर्थः 1१1३।३॥ पदान्तस्थात् ततः- तृतीयात् परस्य हस्य 'पूर्वसवर्गश्चतुर्थो वा' स्यात् । वाग्घीनः, वागहीनः । ककुब्भासः, ककुब्हासः ॥३॥
प्रथमादधुटि शश्छः ।१।३।४॥ पदान्तस्थात् प्रथमात् परस्य शस्याधुटि परे 'छो वा' स्यात् । वाक्छूरः, वाक्शूरः । त्रिष्टुप्छ्रुतम्, त्रिष्टुपश्रुतम् । अधुटीति किम् ? वाक्श्च्योतति ॥४॥
रः कख-पफयोः क-पौ १३॥५॥ पदान्तस्थस्य रस्य कखे पफे च परे यथासंख्यं ' का पौ वा' स्याताम् । कर करोति, कः करोति । क खनति, कः खनति । क) पचति, कः पचति । क)( फलति, कः फलति ॥५॥
श-ष-से श-ष-सं वा ।१३।६॥ पदान्तस्थस्य रस्य श-ष-सेषु परेषु यथासंख्यम् 'श-ष-सा वा' स्युः । कश्शेते, कः शेते । कष्षण्ढः, कः षण्ढः । कस्साधुः, कः साधुः ।।६।।
च-ट-ते स-द्वितीये ।११३७॥