________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१३
ईचा । अमी अश्वाः ॥३५॥
चादिः स्वरोऽनाङ् ।१२।३६॥ आवर्जश्चादिः स्वरः स्वरे परे 'असन्धिः' स्यात् । अ अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, आ एवं किल मन्यसे, आ एवं नु तत् । अनाङिति किम् ? आ इहि, एहि ॥३६॥
ओदन्तः ।११२॥३७॥ ओदन्तश्चादिः स्वरे परे 'असन्धिः' स्यात् । अहो अत्र ॥३७॥
सौ नवेतौ ॥१॥२॥३८॥ सिंनिमित्त ओदन्त इतौ परे 'असन्धिर्वा' स्यात् । पटो इति, पटविति ॥३८॥
ऊँ चोञ् ।१।२॥३९॥ उञ् चादिरितौ परे 'असन्धिर्वा' स्यात्, असन्धौ च उञ् 'ऊँ' इति दीर्घोऽनुनासिको वा स्यात् । उ इति, ऊँ इति, विति ॥३९।।
अञ्वर्गात् स्वरे वोऽसन् ।११२॥४०॥ अवर्जवर्गेभ्यः परः उञ् स्वरे परे 'वो वा' स्यात्, स चाऽसन् । वास्ते । क्रु आस्ते । असत्त्वाद् द्वित्वम् ।।४०॥
अ-इ-उ-वर्णस्यान्तेऽनुनासिकोऽनीदादेः ।१।२।४१॥ अ-इ-उ-वर्णानामन्ते- विरामे 'अनुनासिको वा' स्यात्, न चेदेते 'ईदूदेद्विवचनम्' इत्यादिसूत्रसम्बन्धिनः स्युः । साम, साम । खट्वाँ, खट्वा । दधि, दधि । कुमारी, कुमारी । मघु, मधु । अनीदादेरिति किम् ? अग्नी, अमी, किमु ॥४१॥
इत्यावार्यत्रीहेमचन्द्रविरचितायां सिद्धोमचन्द्राभिधानस्वोपन्नशब्दानुशासन
उपुवृत्ती प्रथमस्याध्यापस्य दितीयपादः समाप्तः ॥२॥ पूर्वभवदारगोपी, - हरणस्मरणादिव ज्वलितमन्युः । श्रीमूलराजपुरुषो, - त्तमोऽवधीद् दुर्मदाऽऽभीरान् ॥२॥
--xox