________________
उपच्छत् ॥३३॥
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२१९
एकोपसर्गस्य च घे |४| २|३४|| एकोपसर्गस्यानुपसर्गस्य च छदेर्घपरे णौ 'ह्रस्वः' स्यात् । प्रच्छदः, छदः । एकोपसर्गस्य चेति किम् ? समुपच्छादः ||३४||
उपान्त्यस्याऽसमानलोपि - शास्वृदितो डे |४| २|३५ ॥
समानलोपि-शास्वृदिद्वर्जस्य धातोरुपान्त्यस्य ङपरे णी 'ह्रस्वः' स्यात् । अपीपचत्, मा भवान् अटिटत् । असमानलोपि - शास्वृदित इति किम् ? अत्यरराजत्, अशशासत्, मा भवान् ओणिणत् ॥३५॥
भ्राजभास - भाष-दीप-पीड- जीव-मील-कण-रण-बण-भण-श्रण- हेठ-लुट - लुप-लपां नवा | ४|२|३६||
एषां ङपरे णावुपान्त्यस्य 'ह्रस्वो वा स्यात् । अबिप्रजत्, अबभ्राजत्; अबीभसत्, अबभासत्; अबीभषत्, अबभाषत्; अदीदिपत्, अदिदीपत् अपीपिडत्, अपिपीडत्; अजीजिवत्, अजिजीवत्; अमीमिलत्, अमिमीलत्; अचीकणत्, अचकाणत्; अरीरणत्, अरराणत्; अबीबणत्, अबबाणत्; अबीभणत्, अबभाणत्; अशिश्रणत्, अशश्राणत्; अजूहवत्, अजुहावत्; अजीहिठत्, अजिहेठत्; अल्लुटत्, अलुलोटत्; अल्लुपत्, अलुलोपत्; अलीलपत्, अल्लापत् ||३६||
ऋदूवर्णस्य |४|२|३७॥
उपान्त्यस्य ऋवर्णस्य उपरे णी 'वा ऋः' स्यात् । अवीवृतत्, अववर्त्तत्; अचीकृतत्, अचिकीर्तत् ॥३७॥
जिघ्रतेरिः |४| २|३८ ॥
घ्र उपान्त्यस्य ङपरे णौ 'इर्वा' स्यात् । अजिघ्रिपत्, अजिघ्रपत् ॥३८॥