________________
२१८
श्रीसिद्हेमचन्द्रशब्दानुशासनम्
%3
रोगम; अशामि, अशमि; शामंशामम्, शमंशमम् । अदर्शन इति किम् ? निशामयति रूपम् ॥२८॥
यमोऽपरिवेषणे णिचि च ।४।२।२९॥ अपरिवेषणार्थस्य यमो णिचि अणिचि च णी 'इस्वः स्यात्, जिणम्परे तु व दीर्घः' । यमयति; अयामि, अयमि; यामयामम्, यमंयमम् । अपरिवेषण इति किम् ? यामयत्यतिथिम् ॥२९॥
मारण-तोषण-निशाने ज्ञश्च ।४।२॥३०॥ एष्वर्थेषु ज्ञो णिचि अणिचि च णौ 'इस्वः स्यात, त्रिणम्परे तु वा दीर्घः' संज्ञपयति पशुम्, विज्ञपयति राजानम्, प्रज्ञपयति शस्त्रम् । अज्ञापि, अज्ञपि ज्ञापंज्ञापम्, ज्ञपंज्ञपम् ॥३०॥
चहणः शाठ्ये ।४।२।३१॥ चहेश्चुरादेः शाठ्यार्थस्य णिचि णी 'इस्वः स्यात्, जिणम्परे तु वा दीर्घः' चहयति; अचाहि, अचहि; चाहंचाहम्, चहचहम् । शाठ्य इति किम् ? अचहि ॥३१॥ ज्वल-हल-झल-ग्ला-स्ना-वनू-वम-नमोऽनुपसर्गस्य वा
४॥२॥३२॥ एषामनुपसर्गाणां णौ 'इस्वो वा' स्यात् । ज्वलयति, ज्वालयति; हलयति, हालयति; ह्मलयति, ह्यालयति; ग्लपयति; ग्लापयति; स्नपयति, स्नापयति; वनयति, वानयति, वमयति, वामयति; नमयति, नामयति । अनुपसर्गस्येति किम् ? प्रज्वलयति, प्रहलयति, प्रह्मलयति, प्रग्लापयति, प्रस्नापयति, प्रवनयति, प्रवमयति, प्रणमयति ॥३२॥
छदेरिस-मन-बट-क्वौ ४॥२॥३३॥ छदेरिस्-मन्त्रट्-क्विपरे णौ 'इस्वः' स्यात् । छदिः, छम, छत्री;