________________
गाः शादयति ॥ २३ ॥
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२१७
घटादेर्द्वस्वो दीर्घस्तु वा जि- णम्परे |४| २|२४||
'घटादीनां णी ह्रस्वः स्यात् ञिणम्परे तु णी वा दीर्घः' । घटयति; अघाटि, अघटि; घाटघाटम्, घटघटम् । व्यथयति अव्याथि, अव्यथि; व्यायंव्याथम्, व्यथंव्यथम् ||२४||
कगे - वनू - जनै - जुष्- क्नस्- रजः |४| २|२५ ॥
'एषां णौ ह्रस्वः स्यात् ञिणम्परे तु वा णौ दीर्घः । कगयति; अकागि, अकगि; कागंकागम्, कगंकगम् । उपवनयति; उपावानि, उपावनि; उपवानमुपवानम्, उपवनमुपवनम् । जनयति; अजानि, अजनि जानंजानम्, जनजनम् । जरयति; अजारि, अजरि; जारंजारम्, जरंजरम् । क्नसयति; अक्नासि; अक्नसि; क्नासंक्नासम्, क्नसंक्नसम् । रजयति; अराजि, अरजि; राजराजम् रजरजम् ||२५||
अमोऽकम्यमिचमः | ४|२|२६ ॥
"
कम्यमि-चमिवर्जस्याऽमन्तस्य णौ ' ह्रस्वः स्यात् ञिणम्परे तु णौ वा दीर्घः' । रमयति, अरामि, अरमिः रामरामम्, रमरमम् । अकम्यमिचम इति किम् ? कामयते, अकामि, कामंकामम् आमयति, आचामयति ॥ २६ ॥ पर्यपात् स्खदः |४| २|२७॥
आभ्यामेव परस्य स्खदेर्णी 'ह्रस्वः स्यात्, ञिणम्परे तु वा दीर्घः' । परिस्खदयति पर्यस्खादि, पर्यस्खदि; परिस्खादपरिस्खादम्, परिस्खदंपरिस्खदम् । अपस्खदयति; अपास्खादि, अपास्खदि; अपस्खादमपस्खादम्, अपस्खदमपस्खदम् । पर्यपादिति किम् ? प्रस्खादयति ||२७|| शमोऽदर्शने । ४।२।२८॥
अदर्शनार्थस्य शमेर्णी 'ह्रस्वः स्यात् ञिणम्परे तु वा दीर्घः' । शमयति