________________
२१६
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
लियः स्नेहद्रवे गम्ये णौ ‘नोऽन्तो वा' स्यात् । घृतं विलीनयति, विलाययति । स्नेहद्रव इति किम् ? अयो विलाययति ॥१५॥
लो लः ।४।२।१६॥ लारूपस्य णी स्नेहद्रवे गम्ये 'लोऽन्तो वा' स्यात् । घृतं विलालयति विलापयति वा । स्नेहद्रव इत्येव- जटाभिरालापयते ॥१६॥
पातेः ।४।२।१७॥ पातेी 'लोऽन्तः' स्यात् । पालयति ॥१७॥
धूग-प्रीगोनः ।४।२।१८॥ धूग-प्रीगोर्णी 'नोऽन्तः' स्यात् । धूनयति, प्रीणयति ॥१८॥
वो विधूनने जः ।४।२।१९॥ वा इत्यस्य विधूननेऽर्थे णौ 'जोऽन्तः' स्यात् । पक्षण उपवाजयति । विधूनन इति किम् ? उच्चैः केशानावापयति ॥१९॥
पा-शा-छा-सा-वे-व्या-हो यः ॥४॥२॥२०॥ एषां णौ 'योऽन्तः' स्यात् । पाययति, शाययति, अवच्छाययति, अवसाययति, वाययति, व्याययति, हाययति ॥२०॥
अति-री-व्ली-ही-क्नूयि-क्ष्माय्यातां पुः ।४।२।२१॥ एषामादन्तानां च णौ 'पुरन्तः' स्यात् । अर्पयति, रेपयति, ब्लेपयति, हेपयति, क्नोपयति, क्ष्मापयति, दापयति, सत्यापयति ॥२१॥
स्फाय स्फाव ।४।२।२२॥ णी स्फायः 'स्फाव्' स्यात् । स्फावयति ॥२२॥
___ शदिरगतौ शात् ।४।२।२३॥ शदिरगत्यर्थे णौ 'शात्' स्यात् । पुष्पाणि शातयति । अगताविति किम् ?