________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२१५
मिग-मीगोऽखलचलि ।४।२८॥ अनयोपि खल्-अच्-अल्वर्जेऽक्डिति च विषये 'आत्' स्यात् । निमाय, निमाता; प्रमाय, प्रमाता । अखलचलीति किम् ? ईषनिमयः, दुष्प्रमयः, मयः, आमयः; निमयः; प्रमयः ॥८॥
ली-लिनोर्वा ।४।२९॥ अनयोर्यपि खल्-अच्-अल्वर्जेऽडिति च विषये 'आद्वा' स्यात् । विलाय, विलीय; विलाता, विलेता । अखलचलीति किम् ? ईषद्विलयः, विलयः, विलयोऽस्ति ॥९॥
__णौ क्री-जीडः ।४।२।१०॥ एषां णौ 'आत्' स्यात् । क्रापयति, जापयति, अध्यापयति ॥१०॥
सिध्यतेरज्ञाने ।४।२।११॥ अज्ञानार्थस्य सिध्यतेी 'स्वरस्याऽऽत्' स्यात् । मन्त्रं साधयति । अज्ञान इति किम् ? तपस्तापसं सेधयति ॥११॥
चि-स्फुरोर्नवा ।४।२।१२॥ चिस्फुरोर्णी 'स्वरस्याऽऽद्वा' स्यात् । चापयति, चाययति; स्फारयति, स्फोरयति ॥१२॥
वियः प्रजने ।४।२।१३॥ गर्भाऽऽधानार्यस्य वियो णौ 'वा आत्' स्यात् । पुरो वातो गाः प्रवापयति, प्रवाययति ॥१३॥
रुहः पः ।४।२॥१४॥ रुहेर्णी 'प् वा' स्यात् । रोपयति रोहयति वा तरुम् ॥१४॥
लियो नोऽन्तः स्नेहद्रवे ॥४॥२॥१५॥