________________
२१४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
कुर्वन् कुन्तलशैथिल्यं मध्यदेशं निपीडयन् । अङ्गेषु विलसन् भूमेर्भर्ताऽभूद् भीमपार्थिवः ॥१३॥
(द्वितीयः पादः)
आत् सन्ध्यक्षरस्य ।४।२।१॥ 'धातोः सन्ध्यक्षरान्तस्याऽऽत्' स्यात् । संव्याता, सुग्लः । धातोरित्येवगोभ्याम् ॥१॥
न शिति ।४।२।२॥ 'सन्ध्यक्षरान्तस्य शिति विषयभूते आत् न' स्यात् । संव्ययति ॥२॥
व्यस्थव-णवि ।४॥२३॥ 'व्यः थवि णवि च विषये आत्र' स्यात् । संविव्याय, संविव्ययिय ॥३॥
स्फुर-स्फुलोजि ।४।२।४॥ अनयोः ‘सन्ध्यक्षरस्य पनि आत्' स्यात् । विस्फारः, विस्फालः ॥४॥
वाऽपगुरो णमि ॥४॥२५॥ 'अपपूर्वस्य गुरेः सन्ध्यक्षरस्य णम्याद्वा' स्यात् । अपगारमपगारम्, अपगोरमपगोरम् ॥५॥
दीङः सनि वा ॥४॥२६॥ 'दीङः सन्यावा' स्यात् । दिदासते, दिदीषते ॥६॥
यबक्डिति ।४।२७॥ दीडो यपि, अक्डिति च विषये 'आत्' स्यात् । उपदाय, उपदाता विषयनिर्देशाद्- उपदायो वर्तते ।।७।।