________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
२१३
घ्यण्यावश्यके ।४।१।११५॥ 'आवश्यकोपाधिके घ्यणि च-जोः क-गौ न' स्याताम् । अवश्यपाच्यम्, अवश्यरज्यम् । आवश्यक इति किम् ? पाक्यम् ॥११५॥
नि-प्राद् युजः शक्ये ।४1१1११६॥ आभ्याम् 'युजः शक्ये गम्ये घ्यणि गो न' स्यात् । नियोज्यः, प्रयोज्यः । शक्य इति किम् ? नियोग्यः ॥११६।।
भुजो भक्ष्ये ।।११।११७॥ 'भुजो भक्ष्यार्थे घ्यणि गो न' स्यात् । भोज्यं पयः । भक्ष्य इति किम् ? भोग्या भूः ॥११७॥
त्यज-यज-प्रवचः ।४।१११८॥ एषाम् ‘ध्यणि क-गौ न' स्याताम् । त्याज्यः, याज्यः, प्रवाच्यः ॥११८॥
वचोऽशदनाम्नि ।191११९॥ 'अशब्दसंज्ञायां वय॑णि को न' स्यात् । वाच्यम् । अशब्दनाम्नीति किम् ? वाक्यम् ॥११९॥
भुज-न्युजं पाणि-रोगे ।४।१।१२०॥ "भुजेन्युजेश्च घअन्तस्य पाणी रोगे चार्थे यथासंख्यं भुजन्युजी निपात्येते' । भुजः पाणिः, न्युब्जो रोगः ॥१२०॥
वीरुन न्यग्रोधौ ।४।१।१२१॥ 'विपूर्वस्य रुहेः विपि, न्यपूर्वस्य चाऽचि वीरुध्यग्रोधी एती धान्ती निपात्येते' । वीरुत्, न्यग्रोधः ॥१२१॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्रामिधानस्वोपनशब्दानुशासन
रघुवृत्तौ चतुर्थस्थाध्यायस्य प्रथमः पादः समाप्तः ॥19॥ .