________________
२१२
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
अनुनासिके च च्छ्-वः शूट ।४।१।१०८॥ 'अनुनासिकादौ क्वौ धुडादौ च 'धातोः च्छ्वोर्यथासङ्ख्यं श्-ऊटौ' स्याताम् । प्रश्नः, शब्दप्राशौ, पृष्टः, स्योमा, अक्षयूः, धूतः ।।१०८॥
मव्यवि-श्रिवि-प्चरि-त्वरेरुपान्त्येन ।४।१।१०९॥ एषामनुनासिकादौ क्वौ धुडादौ च प्रत्यये 'उपान्त्येन सह ऊट् स्यात् । मोमा, मूः, मूतिः; ओमा, ओम्, ऊः, ऊतिः; श्रोमा, श्रूः, श्रूतिः; जूर्मा, जूः, जूर्तिः; तूर्मा, तूः, तूर्णः ॥१०९॥
राल्लुक् ।४।१।११०॥ 'रात् परयोः छ्वोरनुनासिकादौ क्वौ धुडादौ च प्रत्यये लुक् ' स्यात् । मोर्मा, मूः, मूर्तिः; तोर्मा, तूः, तूर्णः ॥११०॥
तेऽनिटश्च-जोः क-गौ घिति ।४।११११॥ 'क्तेऽनिटो धातोश्च-जोर्षिति यथासंख्यं क-गौ' स्याताम् । पाकः, भोग्यम् । तेऽनिट इति किम् ? सङ्कोचः, कूजः ॥११॥
न्यळून-मेघाऽऽदयः ।४।१।११२॥ 'न्यवादयः कत्वे, उद्गादयो गत्वे, मेघादयो घत्वे कृते निपात्यन्ते' । न्यकुः, शोकः; उद्गः, न्युद्गः, मेघः, ओघः ।।११२॥
न वञ्चेर्गतौ ।४।१।११३॥ 'गत्यर्थस्य वञ्चेः कत्वं न' स्यात् । वञ्चं ववन्ति । गताविति किम् ? वर्ष काष्ठम् ।।११३॥
यजेर्यज्ञाङ्गे 1४191११४॥ 'यज्ञानवृत्तेर्यजेर्गत्वं न' स्यात् । पञ्च प्रयाजाः । यज्ञाङ्ग इति किम् ? प्रयागः ॥११४॥