________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२११ श्रपेः प्रयोक्त्रैक्ये ४११०१॥ 'श्रातेः श्रायते, ण्यन्तस्यैकस्मिन् प्रयोक्तरि क्ते परे हविः-क्षीरयोः शृर्निपात्यते' । शृतं हविः क्षीरं वा चैत्रेण । हविःक्षीर इत्येव- श्रपिता यवागूः । प्रयोक्त्रैक्य इति किम् ? अपितं हविश्चैत्रेण मैत्रेण ॥१०१॥
वृत सकृत् ।४।१।१०२॥ 'अन्तस्थास्थानानाम्, इ-उ-ऋत् सकृदेव' स्यात् । संवीयते ॥१०२॥
दीर्घमवोऽन्त्यम् ।४।१।१०३॥ 'वेग्वर्जस्य वृदन्त्यं दीर्घम्' स्यात् । जीनः । अव इति किम् ? उतः । अन्त्यमिति किम् ? सुप्तः ॥१०३।।
स्वर-हन-गमोः सनि धुटि ।४।१।१०४॥ 'स्वरान्तस्य हन्-गमोश्च धुडादौ सनि दीर्घः' स्यात् । चिचीषति, जिघांसति, संजिगांसते । धुटीति किम् ? यियविषति ।।१०४॥
तनो वा ४११०५॥ 'तनेधुंडादौ सनि दीर्घो वा' स्यात् । तितांसति, तितंसति । धुटीत्येवतितनिषति ॥१०५॥
क्रमः क्त्वि वा ।४।१।१०६॥ 'क्रमो धुडादौ क्त्वि दीर्घो वा' स्यात् । क्रान्त्वा, क्रन्त्वा । धुटीत्येवक्रमित्वा ॥१०६॥
अहन्-पञ्चमस्य क्वि-विङति ।४।१११०७॥ 'हन्वर्जस्य पञ्चमान्तस्य क्वौ धुडादौ च क्लिति दीर्घः' स्यात् । प्रशान्, शान्तः, शंशान्तः । पञ्चमस्येति किम् ? पक्त्वा । अहनिति किम् ? वृत्रहणि । धुटीत्येव- यम्यते ।।१०७।।