________________
२१०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 'स्फायतेः क्तयोः परयोः स्फीर्वा' स्यात् । स्फीतः, स्फीतवान्; स्फातः, स्फातवान् ॥१४॥
प्रसमः स्त्यः स्तीः।४।१।९५॥ 'प्रसम्समुदायपूर्वस्य स्त्यः क्तयोः परयोः स्तीः' स्यात् । प्रसंस्तीतः, प्रसंस्तीतवान् । प्रसम इति कम् ? संप्रस्त्यानः ॥१५॥
प्रात् तश्च मो वा ।४।१।९६॥ 'प्रात् केवलात् परस्य स्त्यः क्तयोः परयोः स्तीः स्यात्, क्तयोस्तो मश्च वा' । प्रस्तीतः, प्रस्तीतवान्। प्रस्तीमः, प्रस्तीमवान् ॥१६॥
श्यः शीर्द्रवमूर्ति-स्पर्श नचाऽस्पर्श ४११९७॥ मूर्तिः काठिन्यम्, 'द्रवमूर्ति स्पर्शार्थस्य श्यः क्तयोः परयोः शीः स्यात्, तधोगे च क्तयोस्तोऽस्पर्शविषये नश्च' । शीनम्, शीनवद् घृतम्, शीतं वर्तते, शीतो वायुः ॥९७॥
प्रतेः ।४।१।९८॥ 'प्रतेः परस्य श्यः क्तयोः परयोः शीः स्यात्, तद्योगे तयोः तो न च । प्रतिशीनः, प्रतिशीनवान् ॥१८॥
वाऽभ्यवाभ्याम् ।।११९९॥ आभ्यां परस्य 'श्यः क्तयोः परयोः शीर्वा स्यात्, तपोगे च क्तयोस्तोऽस्पर्श नश्च' । अभिशीनः, अभिशीनवानः अभिश्यानः, अभिश्यानवानः अवशीनम्, अवश्यानं हिममः अवशीनवान्, अवश्यानवान् ।।९९॥
श्रः शृतं हविः-क्षीरे ४११००॥ 'श्रातः श्रायतेश्च ते हविषि क्षीरे चार्थे शृर्निपात्यते' । शृतं हविः, शृतं क्षीरं स्वयमेव । हविःक्षीर इति किम् ? श्राणा यवागूः ॥१०॥