________________
२२०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
तिष्ठतेः ॥४॥२॥३९॥ स्थ उपान्त्यस्य छुपरे णौ 'इ.' स्यात् । अतिष्ठिपत् ॥३९।।
ऊद् दुषो णौ ।४।२।४०॥ दुषेरुपान्त्यस्य णौ 'ऊत्' स्यात् । दूषयति ॥४०॥
चित्ते वा ॥४॥२॥४१॥ चित्तकर्तृकस्य दुषेरुपान्त्यस्य णौ परे 'ऊद् वा' स्यात् । मनो दूषयति, मनो दोषयति मैत्रः ॥४१॥
गोहः स्वरे ।४।२।४२॥ कृतगुणस्य गुहेः 'स्वरादावुपान्त्यस्योत्' स्यात् । निगृहति । गोह इति किम् ? निजुगुहुः ॥४२॥
भुवो वः परोक्षा-ऽयतन्योः ।४।२।४३॥ 'भुवो वन्तस्योपान्त्यस्य परोक्षा-ऽघतन्योरूत्' स्यात् । बभूव, अभूवन् । व इति किम् ? बभूवान्, अभूत् ॥४३॥
गम-हन-जन-खन-घसः स्वरेऽनडि क्डिति लुक ।४।२॥४४॥ 'एषामुपान्त्यस्याङ्वर्जे स्वरादी क्छिति परे लुक् ' स्यात् । जग्मुः, जप्नुः, जज्ञे चख्नुः, जक्षुः । स्वर इति किम् ? गम्यते । अनडीति किम् ? अगमत् । कितीति किम् ? गमनम् ॥४४॥
नो व्यञ्जनस्याऽनुदितः ।४।२।४५॥ 'व्यञ्जनान्तस्याऽनुदितो धातोरुपान्त्यस्य नः छिति परे लुक्' स्यात् । प्रस्तः, सनीनस्यते । व्यञ्जनस्येति किम् ? नीयते । अनुदित इति किम् ? नानन्द्यते ॥४५॥
अञ्चोऽनर्चायाम् ।४।२।४६॥