________________
श्रीसिदहेमचन्द्रशब्दानुशासनम्
२०१ सस्वनिय । रेजुः, रराजुः; रेजिय, रराजिय । प्रेजे, बघाजे । प्रेसे, बप्रासे । म्लेसे, बम्लासे ॥२६॥
वा अन्य-ग्रन्थो न लुक् च ।४।१।२७॥ अनयोः 'स्वरस्यावित्परोक्षा-सेट्यवोरेर्वा स्यात्, तद्योगे च नो लुक्, न च द्विः' । श्रेयुः, शश्रन्युः; श्रेथिय, शश्रन्यिथ । ग्रेयुः, जग्रन्युः; ग्रेथिथ, जग्रन्थिय ॥२७॥
दम्भः ।४।१॥२८॥ दम्मेः स्वरस्यावित्परोक्षायाम् ‘ए: स्यात्, न च द्विः, तद्योगे च नो लुक् । देमुः ॥२८॥
थे वा ।४।१।२९॥ दम्भेः स्वरस्य थवि 'एर्वा स्यात्, तद्योगे च नो लुक्, न च द्वि:' । देभिय, ददम्मिथ ॥२९॥
न शस-दद-वादि-गणिनः ।।११॥३०॥ शसि-दद्योर्वादीनां गुणिनां च स्वरस्य 'एन' स्यात् । विशशसुः, विशशसिय; दददे; ववले; विशशरुः, विशशरिय ॥३०॥
हो दः ।४1१1३१॥ दासंज्ञस्य हौ परे ‘ए: स्यात्, न च द्विः' । देहि, घेहि ॥३१॥
देर्दिगिः परोक्षायाम् ।४191३२॥ देङः परोक्षायाम् 'दिगिः स्यात्, न च द्विः' । दिग्ये ॥३२॥
डे पिवः पीप्य् ॥४॥१॥३३॥ ण्यन्तस्य पिबते. परे 'पीप्य् स्यात्, न च द्विः' । अपीप्यत् ॥३३॥
अड़े हि-हनो हो घः पूर्वात् ।।११।३४॥