________________
२०२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् हि-हनोर्डवर्जे प्रत्यये परे द्वित्ये सति पूर्वस्मात् परस्य 'हो घः' स्यात् । प्रजिघाय, जंघन्यते । अङ इति किम् ? प्राजीहयत् ॥३४॥
जेर्गिः सन् - परोक्षयोः ।४।११३५॥ सन्-परोक्षयोर्दित्वे सति पूर्वात् परस्य ‘जेर्गिः' स्यात् । जिगीषति, विजिग्ये ।।
चेः किर्वा ।४१३६॥ सन् परोक्षयोर्द्वित्वे सति पूर्वस्मात् परस्य 'चेः किर्वा' स्यात् । चिकीषति, चिचीषति; चिक्ये, चिच्ये ॥३६॥
पूर्वस्याऽस्वे स्वरे प्योरियुत् ।४।१।३७॥ द्वित्वे सति यः पूर्वस्तत्सम्बन्धिनोझेः- इकारस्य उकारस्य चाऽस्वे स्वरे परे 'इयुवी' स्याताम् । इयेष, अरियर्ति, उवोष । अस्व इति किम् ? ईषतुः । स्वर इति किम् ? इयाज ॥३७॥
ऋतोऽत् ।४।११३८॥ द्वित्वे सति 'पूर्वस्य ऋतोऽत्' स्यात् । चकार ॥३८॥
हस्वः ।४।१।३९॥ द्वित्वे सति 'पूर्वस्य ह्रस्वः' स्यात् । पपी ॥३९॥
ग-होर्जः ।४१११४०॥ द्वित्वे सति 'पूर्वयोर्ग-होर्जः' स्यात् । जगाम, जहास ॥४०॥
द्युतेरिः ।।११।४१॥ द्युतेर्दित्वे सति 'पूर्वस्य इ.' स्यात् । दिधुते ॥४१॥
द्वितीय-तुर्ययोः पूर्वी ।४।१।४२॥ द्वित्वे 'पूर्वयोर्द्वितीय-तुर्ययोर्यथासङ्ख्यं पूर्वी- आध-तृतीयौ' स्याताम् । चखान, जझाम ॥४२॥