________________
२००
श्रीसिदहेमचन्द्रशब्दानुशासनम्
एषां स्वरस्य सि सनि 'इ: स्यात्, न च द्विः' । आरिप्सते, लिप्सते, शिक्षति, पित्सति, पित्सते । सीत्येव- पिपतिषति ॥२१॥
राधेर्वधे ।४।१।२२॥ राधेहिँसाऽर्थस्य सि सनि स्वरस्य 'इ: स्यात्, न च द्विः' । प्रतिरित्सति । वध इति किम् ? आरिरात्सति ॥२२॥
अवित्परोक्षा-सेट्थवोरेः ।४।१।२३॥ राधेहिँसार्थस्याऽविति परोक्षायां यवि च सेटि स्वरस्य 'ए: स्यात्, न च द्विः' । रेधुः, रेधिय । अविदिति किम् ? अपरराध । वध इत्येवआरराधतुः ॥२३॥
___ अनादेशाऽऽदेरेकव्यानमध्येतः ।४।१।२४॥ अवित्परोक्षा-सेट्यवोः परयोर्योऽनादेशाऽऽदिस्तत्सम्बन्धिनः स्वरस्याऽतोऽसहायव्यअनयोर्मध्यगतस्य ‘ए: स्यात्, न च द्विः' । पेचुः, पेचिय, नेमुः, नेमिथ । अनादेशादेरिति किम् ? बमणतुः । एकव्यसनमध्य इति किम् ? ततक्षिय । अत इति किम् ? दिदिवतुः । सेट्यवीत्येव- पपक्थ ॥२४॥
तू-त्रप-फल-भजाम् ।४।१।२५॥ एषामवित्परोक्षा-सेट्यवोः स्वरस्य 'ए: स्यात्, न च द्विः' । तेरुः, तेरिय; त्रेपे; फेलुः, फेलिय; भेजुः, भेजिय ॥२५॥ ज-भ्रम-वम-त्रस-फण-स्यम-स्वन-राज-भ्राज-भ्रास-भ्लासो
वा119२६॥ एषाम् 'स्वरस्याऽवित्परोक्षा-सेट्थवोरेर्वा स्यात्, न च द्विः' । जेरुः, जजरुः; जेरिय, जजरिय । प्रेमुः, बभ्रमुःः प्रेमिय, बप्रमिथ । वेमुः, ववमुः; वेमिय, ववमिय । त्रेसुः, तत्रसुः सिथ, तत्रसिय । फेणुः, पफणुः; फेणिय, पफणिय । स्येमुः, सस्यमुः; स्येमिथ, सस्यमिय । स्वेनुः, सस्वनुः; स्वेनिथ,