________________
Fenoshm - Basp - Dhomad - udvamane
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
फेनोष्म-बाष्प-धूमादुदमने ॥३॥४॥३३॥ एभ्यः कर्मभ्य उद्वमनेऽर्थे 'क्यङ् वा स्यात् । फेनायते, ऊष्मायते, बाष्पायते, धूमायते ॥३३॥
सुखादेरनुभवे ॥३४॥३४॥ साक्षात्कारेऽर्थे सुखादेः कर्मणः 'क्यङ् वा' स्यात् । सुखायते, दुःखायते ॥३४॥
शब्दादेः कृतौ वा ।३।४॥३५॥ एभ्यः कर्मभ्यः कृतावर्थे 'क्यङ् वा' स्यात् । शब्दायते, वैरायते 1 पक्षे णिच्शब्दयति, वैरयति ॥३५॥
तपसः क्यन् ।३।४॥३६॥ अस्मात् कर्मणः कृतावर्थे 'क्यन् वा' स्यात् । तपस्यति ॥३६॥
नमो-वरिवश्चित्रकोऽर्चा-सेवाऽऽश्चर्ये ३२४॥३७॥ एभ्यः कर्मभ्यो यथासंख्यमर्चादिष्वर्थेषु 'क्यन् वा' स्यात् । नमस्यति, वरिवस्यति, चित्रीयते ॥३७॥
अङ्गानिरसने गिङ् ३॥४॥३८॥ अङ्गवाचिनः कर्मणो निरसनेऽर्थे 'णिङ् वा स्यात् । हस्तयते, पादयते ॥
पुच्छादुत-परि-व्यसने ।३४।३९॥ पुच्छात् कर्मण उदसने पर्यसने व्यसनेऽसने चार्थे 'णिङ् वा' स्यात् । उत्पुच्छयते, परिपुच्छयते, विपुच्छयते, पुच्छयते ॥३९॥
भाण्डात् समाचितौ ॥३॥४॥४०॥ भाण्डात् कर्मणः समाचितावर्थे 'णिड् वा' स्यात् । सम्भाण्डयते, परिभाण्डयते ॥४०॥
चीवरात् परिधाना-ऽर्जने ॥३॥४॥४१॥