________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१८५
सो वा लुक् च ।३।४।२७॥ सन्तात् कर्तुरुपमानादाचारेऽर्थे 'क्यङ् वा स्यादन्तस्य च सो वा लुक्' । पयायते, पयस्यते ॥२७॥
ओजोऽप्सरसः ।३।४।२८॥ आभ्यां कर्तुरुपमानाभ्यामाचारे 'क्यङ् वा स्यात्, सश्च लुक्' । ओजायते, अप्सरायते ॥२८॥
च्यचे मृशादेः स्तोः ।३।४।२९॥ भृशादेः कर्तृश्य र्थे 'क्यङ् वा स्यात्, यथासम्भवं स्तोर्मुक् च' । मृशायते, उन्मनायते, वेहायते । कर्तुरित्येव- अमृशम्भृशं करोति । च्च्यर्थ इति किम् ? भृशो भवति ॥२९॥
डाच-लोहितादिभ्यः पित ३॥४॥३०॥ डाजन्तेभ्यो लोहितादिभ्यश्च कर्तृभ्यश्च्व्यर्थे 'क्यङ् पित्' स्यात् । पटपटायति, पटपटायते; लोहितायति, लोहितायते । कर्तुरित्येव- अपटपटा पटपटा करोति । च्यर्थ इत्येव- लोहितो भवति ॥३०॥
कष्ट-कक्ष-कृच्छ्र-सत्र-गहनाय पापे क्रमणे ।३।४॥३१॥ एभ्यश्चतुर्थ्यन्तेभ्यः पापवृत्तिभ्यः क्रमणेऽर्थे 'क्यङ् स्यात् । कथयते, कक्षायते, कृच्छ्रायते, सत्रायते, गहनायते । चतुर्थीति किम् ? रिपुः कष्टं कामति । पाप इति किम् ? कष्टाय तपसे कामति ॥३१॥
रोमन्थाद् व्याप्यादुचर्वणे ॥३॥४॥३२॥ अभ्यवहृतं द्रव्यम्=रोमन्यः, उद्गीर्य चर्वणम्-उच्चर्वणम्, अस्मिन्नर्थे रोमन्यात् कर्मणः 'क्यङ् वा' स्यात् । रोमन्यायते गौः । उच्चर्वण इति किम् ? कीटो रोमन्यं वर्तयति ॥३२॥