________________
१८४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति ॥२०॥
तुमहादिच्छायां सनतत्सनः ।३।४।२१॥ यो धातुरिषेः कर्म इषिणैव च समानकर्तृकः स तुमर्हः, तस्मादिच्छायामर्थे 'सन् वा' स्यात्, न विच्छासन्नन्तात् । चिकीर्षति, जिगमिषति । तुमर्हादिति किम् ? यानेनेच्छति, भुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् ? भोक्तुं याति । अतत्सन इति किम् ? चिकीर्षितुमिच्छति । तदिति किम् ? जुगुप्सिषते ॥२१॥
द्वितीयायाः काम्यः ।३।४।२२॥ द्वितीयान्तादिच्छायाम् 'काम्यो वा' स्यात् । इदंकाम्यति । द्वितीयाया इति किम् ? इष्टः पुत्रः ॥२२॥
__ अमाव्ययात् क्यन् च ।३।४॥२३॥ मान्ता-ऽव्ययाभ्यामन्यस्माद् द्वितीयान्तादिच्छायाम् 'क्यन् काम्यश्च वा' स्यात् । पुत्रीयति, पुत्रकाम्यति । अमाव्ययादिति किम् ? इदमिच्छति, स्वरिच्छति ॥२३॥
आधाराचोपमानादाऽऽचारे ३३४॥२४॥ अमाव्ययादुपमानाद् द्वितीयान्तादाधाराचाऽऽचारार्थे 'क्यन् वा स्यात् । पुत्रीयति च्छात्रम्, प्रासादीयति कुट्याम् ॥२४॥
कर्तुः क्विप्, गल्म कीब-होडात्तु ङित् ॥३॥४॥२५॥ कर्तरुपमानानाम्न आचारार्थे 'क्विप् वा स्यात्, गल्म-क्कीब-होडेभ्यस्तु स एव डित्' । अश्वति, गल्मते, कीबते, होडते ॥२५॥
क्यडू ३।४।२६॥ कर्तरुपमानादाचारेऽर्थे 'क्यङ् वा' स्यात् । हंसायते ॥२६॥