________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१८३
'गर्थेिभ्य एव एभ्यो यङ्' स्यात् । निजेगिल्यते, लोलुप्यते, सासद्यते, चञ्चूर्यते, जाप्यते, जलभ्यते, दन्दश्यते, दन्दह्यते । गर्दा इति किम् ? साधु जपति, भृशं निगिरति ॥१२॥
न गृणा-शुभ-रुचः ।३।४।१३॥ 'एभ्यो यङ् न' स्यात् । निन्द्यं गृणाति, भृशं शोभते, भृशं रोचते ॥१३॥
बहुलं लुप् ।३।४।१४॥ 'यडो लुप् बहुलम् स्यात् । बोभूयते, बोमवीति । बहुलवचनात् क्वचित्र भवति -लोलूया, पोपूया ॥१४॥
अचि ३।४१५॥ 'योऽचि परे लुप्' स्यात् । चेच्यः, नेन्यः ॥१५॥
नोतः ।।४।१६॥ 'उदन्ताद् विहितस्य योऽचि परे लुब् न' स्यात् । रोरूयः ॥१६॥
चुरादिभ्यो णिच् ॥३॥४॥१७॥ एभ्यो धातुभ्यः 'स्वार्थे णिच्' स्यात् । चोरयति । पदयते ॥१७॥
युजादेवा ॥३॥४॥१८॥ एभ्यः 'स्वार्थे णिच् वा स्यात् । योजयति, योजति । साहयति, सहति ॥१८॥
भूङः प्राप्तौ णित् ।३।४।१९॥ 'भुवः प्राप्त्यर्याण्णिङ् वा' स्यात् । भावयते, भवते । प्राप्ताविति किम् ? भवति ॥१९॥
प्रयोक्तव्यापारे णिग् ॥३॥४॥२०॥ कुर्वन्तं यः प्रयुड़े तद्व्यापारे वाच्ये 'धातोर्णिग् वा स्यात् । कारयति, भिक्षा वासयति, राजानमागमयति, कंसं घातयति, पुष्येण चन्द्रं योजयति, उज्जयिन्याः