________________
१८२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ शान-दान-मान-बधानिशाना-ऽऽर्जव-विचार-वैरूप्ये दीर्घश्चेतः
३४७॥ एभ्यो यथासङ्ख्यं निशानाद्यर्थेभ्यः स्वार्थे “सन् स्यात्, दीर्घश्चैषां द्वित्वे पूर्वस्येतः' । शीशांसति, दीदांसति, मीमांसते, बीभत्सते । अर्थोक्तिः किम् ? अर्थान्तरे मा भूत् - निशानम्, अवदानम्, मानयति, बाधयति ॥७॥
धातोः कण्ड्वादेर्यक्॥३॥४८॥ एभ्यो धातुभ्यः स्वार्थे 'यक्' स्यात् । कण्डूयति, कण्डूयते, महीयते । धातोरिति किम् ? कण्डूः ॥८॥
व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा ३।४।९॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन संपत्तिः फलातिरेको वा-भृशत्वम्, प्रधानक्रियाया विकेदादेः क्रियान्तराव्यवधानेनाऽऽवृत्तिराभीक्ष्ण्यम्, तद्विशिष्टार्थवृत्तेर्धातोर्व्यञ्जनादेरेकस्वराद् 'यङ् वा' स्यात् । पापच्यते । व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् ॥९॥
अट्यर्ति-सूत्रि-मूत्रि-सूच्यशूर्णोः ।३।४।१०॥ एभ्यो भृशाऽऽभीक्ष्ण्यार्थवृत्तिभ्यो ‘यङ् स्यात् । अटाट्यते, अरार्यते, सोसूत्र्यते, मोमूत्र्यते, सोसूच्यते, अशाश्यते, प्रोर्णोनूयते ॥१०॥
गत्यर्थात् कुटिले ३।४।११॥ व्यअनादेरेकस्वराद् गत्यर्थात् कुटिले एवार्थे वर्तमानाद् धातो-र्य' स्यात् । चङ्गम्यते । कुटिल इति किम् ? भृशं क्रामति ॥११॥
गृ-लुप-सद-चर-जप-जभ-दश-दहो गर्यो ।३।४१२॥