________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
लघुवृत्तौ तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः || ३|३|| श्रीदुर्लभेशद्युमणेः पादास्तुष्टुविरे न कैः ? । लुलद्भिर्मेदिनीषालैर्वालिखिल्यैरिवाग्रतः ॥११॥
१८१
(चतुर्थः पादः )
गुपौ धूप विच्छि-पणि- पनेरायः | ३ | ४|१ ||
एभ्यो धातुभ्यः स्वार्थे 'आयः' स्यात् । गोपायति, धूपायति, विच्छायति, पणायति, पनायति ॥१॥
कमेर्णिङ् |३|४|२॥
कमेः स्वार्थे 'णिड्' स्यात् । कामयते ||२|| ऋतेर्डीयः | ३|४|३ ॥
ऋतेः स्वार्थे 'डीयः' स्यात् । ऋतीयते ||३|| अशवि ते वा | ३ | ४|४|
'गुपादिभ्यो ऽशव्विषये ते - आयादयो वा स्युः । गोपायिता, गोप्ता; कामयिता, कमिता; ऋतीयिता, अर्तिता ॥४॥
गुप्- तिजो गर्हा - क्षान्तौ सन् | ३ | ४|५||
गुपो गर्हायां तिजः क्षान्तौ वर्तमानात् स्वार्थे 'सन्' स्यात् । जुगुप्सते, तितिक्षते । गर्हाक्षान्ताविति किम् ? गोपनम् तेजनम् ॥५॥
कितः संशय-प्रतीकारे | ३|४|६ ॥
कितः संशय-प्रतीकारार्थात् स्वार्थे 'सन्' स्यात् । विचिकित्सति मे मनः, व्याधिं चिकित्सति । संशयप्रतीकारार्थ इति किम् ? केतयति ॥ ६ ॥