________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
१८०
पति, अतिक्षिपति ॥१०२॥
प्राद् वहः | ३|३|१०३ ॥
अतः 'कर्त्तरि परस्मैपदम्' स्यात् । प्रवहति ॥१०३॥ परेर्मृषश्च |३|३|१०४॥
परेः परान्मृषेर्वहेश्च कर्त्तरि परस्मैपदम् स्यात् । परिमृष्यति, परिवहति ॥ ब्याङ्-परे रमः | ३ | ३|१०५ ॥
एभ्यः पराद् रमेः 'कर्त्तरि परस्मैपदम् स्यात् । विरमति, आरमति, परिरमति ||१०५||
वोपात् |३|३|१०६॥
उपाद् रमे: 'कर्तरि परस्मैपदं वा स्यात् । भार्यामुपरमति, उपरमते वा ॥ अणिगि प्राणिकर्तृकानाप्याण्णिगः ।३।३।१०७॥
अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्मात् णिगन्तात् 'कर्त्तरि परस्मैपदम् स्यात् । आसयति चैत्रम् । अणिगीति किम् ? स्वयमेवारोहयमाणं गजं प्रयु-आरोहयते । अणिगिति गकारः किम् ? चेतयमानं प्रयुचेतयति । प्राणिकर्तृकादिति किम् ? शोषयते व्रीहीन् आतपः । अनाप्यादिति किम् ? कटं कारयते ||१०७ |
चल्याहारार्वेट्-बुध-युध-पु-दु-सु-नश-जनः |३|३|१०८ ॥
चल्यर्था - SSहारार्थेभ्य इङादिभ्यश्च णिगन्तेभ्यः कर्त्तरि परस्मैपदम्' स्यात् । चम्यति, कम्पयति ; भोजयति, आशयति चैत्रमन्त्रम्: सूत्रमध्यापयति शिष्यम्, बोधयति पद्मं रविः, योधयति काष्ठानि, प्रावयति राज्यम्, द्रावयत्ययः, स्रावयति तैलम्, नाशयति पापम्, जनयति पुण्यम् ||१०८||
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धमचाभिधानस्वोपद्मशब्दानुशासन