________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१७९ ज्ञोऽनुपसर्गात् ।३।३।९६॥ अतः ‘फलवति कर्तर्यात्मनेपदम्' स्यात् । गां जानीते । फलवतीत्येव- परस्य गां जानाति ॥१६॥
वदोऽपात् ।३।३।९७॥ अतः ‘फलवति कर्तर्यात्मनेपदम्' स्यात् । एकान्तमपवदते । फलवतीत्येवअपवदति परं स्वभावात् ॥९७॥
समुदाडो यमेरग्रन्थे ।३।३।९८॥ एभ्यः पराद् यमेरग्रन्थविषये ‘फलवत्कर्तर्यात्मनेपदम्' स्यात् । संयच्छते व्रीहीन्, उद्यच्छते भारम्, आयच्छते भारम् । अग्रन्य इति किम् ? चिकित्सामुद्यच्छति । फलवतीत्येव- संयच्छति ॥९८॥
पदान्तरगम्ये वा ३२३९९॥ 'प्रक्रान्तसूत्रपञ्चके यदात्मनेपदमुक्तं तत् पदान्तरगम्ये फलवत्कर्तरि वा' स्यात् । स्वं शत्रु परिमोहयते परिमोहयति वा । स्वं यज्ञं यजते यजति वा । स्वां गां जानीते जानाति वा । स्वं शत्रुमपवदते अपवदति वा । स्वान् व्रीहीन् संयच्छते संयच्छति वा ॥९९॥
शेषात परस्मै ।३।३।१००॥ 'येभ्यो धातुभ्यो येन विशेषेणाऽऽत्मनेपदमुक्तं ततोऽन्यस्मात् कर्तरि परस्मैपदम् स्यात् । भवति, अति ॥१०॥
परानोः कृगः ।३।३।१०१॥ परानुपूर्वात् कृगः 'कर्तरि परस्मैपदम् स्यात् । पराकरोति, अनुकरोति ॥
प्रत्यभ्यतेः क्षिपः ।।३।१०२॥ एभ्यः परात् क्षिपः 'कर्तरि परस्मैपदम्' स्यात् । प्रतिक्षिपति, अभिक्षि
मैपदम् स्यात् ।
नोः कृगः
पराकरोति, अनुस