________________
१७८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
जटाभिरालाप्यते जटिलेन ॥१०॥
स्मिङः प्रयोक्तः स्वार्थे ।३।३।९१॥ प्रयोक्तृतो यः स्वार्थः स्मयस्तदर्थात् णिगन्तात् स्मिङ: 'कर्त्तर्यात्मनेपदं स्याद् आचास्याऽकर्तर्यपि' । जटिलो विस्मापयते । प्रयोक्तुः स्वार्थ इति किम् ? रूपेण विस्माययति । अकर्तर्यपीत्येव- विस्मापनम् ॥९१॥
बिभेतेीष च ।।३।९२॥ प्रयोक्तृतः स्वार्थवृत्तेर्ण्यन्ताद् भियः 'कर्तर्यात्मनेपदं स्याद, अस्य च भीष, पक्षे आचाऽकर्तर्यपि' । मुण्डो भीषयते, भापयते वा । प्रयोक्तुः स्वार्थ इत्येव कुञ्चिकया भाययति । अकर्तर्यपीत्येव- भीषा, भापनम् ॥१२॥
मिथ्याकृगोऽभ्यासे ३।३।९३॥ मिथ्यायुक्तात् कृगो ण्यन्तात् क्रियाभ्यासवृत्यर्थात् 'कर्तर्यात्मनेपदम्' स्यात् । पदं मिथ्या कारयते । मिथ्येति किम् ? पदं साधु कारयति । अभ्यास इति किम् ? सकृत् पदं मिथ्या कारयति ॥१३॥ परिमुहा-ऽऽयमा-ऽऽयस-पा-ट्धे-वद-वस-दमा-उद-रुच
नृतः फलवति ।३।३।९४॥ प्रधानफलवति कर्तरि एभ्यो विवक्षितेभ्यो णिगन्तेभ्यः ‘आत्मनेपदम्' स्यात् । परिमोहयते चैत्रम्, आयामयते सर्पम्, आयासयते मैत्रम्, पाययते बटुम्, धापयते शुिशुम्, वादयते बटुम्, वासयते पान्यम्, दमयते अश्वम्, आदयते चैत्रेण, रोचयते मैत्रम्, नर्तयते नटम् ॥१४॥
ई-गितः ।।३।९५॥ ईदितो गितश्च धातोः ‘फलवति कर्तर्यात्मनेपदम्' स्यात् । यजते, कुरुते । फलवतीत्येव- यजन्ति, कुर्वन्ति ॥१५॥