________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१७७
त्मनेपदम्' स्यात् । आयच्छते, आहते वा । स्वेऽङ्गे - आयच्छते, आहते वा पादम् । स्वेङ्गे चेति किम् ? आयच्छति रज्जुम् ||८६॥
व्युदस्तपः | ३|३|८७ ॥
आभ्यां परात् तपेः कर्मण्यसति, स्वेऽङ्गे च कर्मणि 'कर्त्तर्यात्मनेपदम्' स्यात् । वितपते उत्तपते रविः, वितपते उत्तपते पाणिम् ॥८७॥
अणिक्कर्मणिक्कर्तृकाण्णिगोऽस्मृतौ |३|३|८८ ॥
अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्त्ता यस्य तस्माद् णिगन्तादस्मृत्यर्थात् 'कर्त्तर्यात्मनेपदम्' स्यात् । आरोहयते हस्ती हस्तिपकान् । अणिगिति किम् ? आरोहयति हस्तिपकान् महामात्रः, आरोहयन्ति महामात्रेण हस्तिपकाः । गित् किम् ? गणयते गणो गोपालकम् । कर्मेति किम् ? दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? लुनाति केदारं चैत्रः, लूयते केदारः स्वयमेव तं प्रयुङ्क्ते - लावयति केदारं चैत्रः । कर्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानेनमारोहयति महामात्रः । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानारोहयते हस्तीत्यणिगि मा भूत् । अस्मृताविति किम् ? स्मरयति वनगुल्मः कोकिलम् ॥८८॥
प्रलम्भे गृधि - वञ्चेः | ३|३।८९ ॥
आभ्यां णिगन्ताभ्यां वञ्चनार्थाभ्याम् 'कर्त्तर्यात्मनेपदम् स्यात् । बटुं गर्द्धयते वञ्चयते वा । प्रलम्भ इति किम् ? श्वानं गर्द्धयति ॥ ८९ ॥
लीड्-लिनोऽर्चा - ऽभिभवे चाऽऽच्चाऽकर्त्तर्यपि | ३ | ३|९०॥ आभ्यां णिगन्ताभ्यामर्चा ऽभिभव - प्रलम्भार्थाभ्याम् 'कर्त्तर्यात्मनेपदं स्याद्, आच्चानयोरकर्त्तर्यपि । अर्चा - जटाभिरालापयते । अभिभवः श्येनो वर्तिकामपलापयते । प्रलम्भः - कस्त्वामुल्लापयते । अकर्त्तर्यपीति किम् ?
?
-