________________
१७६
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ किम् ? संप्रवदन्ते वैयाकरणाः । सहोक्तावित्येव- मौहूर्तो मौहूर्तेन क्रमाद् विप्रवदति ||८०॥
अनोः कर्मण्यसति ।३।३।८१॥ व्यक्तवाचामर्थे वर्तमानादनुपूर्वाद् वदः कर्मण्यसति 'कर्तर्यात्मनेपदम्' स्यात् । अनुवदते चैत्रो मैत्रस्य । कर्मण्यसतीति किम् ? उक्तमनुवदति । व्यक्तवाचामित्येव- अनुवदति वीणा ॥८॥
ज्ञः ।३।३१८२॥ जानातेः कर्मण्यसति 'कर्तर्यात्मनेपदम्' स्यात् । सर्पिषो जानीते । कर्मण्यसतीत्येव- तैलं सर्पिषो जानाति ||८२॥
उपात् स्थः ।३३३३८३॥ अतः कर्मण्यसति 'कर्तर्यात्मनेपदम्' स्यात् । योगे योग उपतिष्ठते । कर्मण्यसतीत्येव- राजानमुपतिष्ठति ॥८३॥
समो गमृच्छि-प्रच्छि-श्रु-वित्-स्वरत्यर्ति-दृशः ३३३८४॥ संपूर्वेभ्य एभ्यः कर्मण्यसति ‘कर्तर्यात्मनेपदम्' स्यात् । सङ्गच्छते, समृच्छिष्यते, संपृच्छते, संशृणुते, संवित्ते, संस्वरते, समृच्छते, समियते, संपश्यते । कर्मण्यसतीत्येव- सङ्गच्छति मैत्रम् ॥८४॥
वेः कृगः शब्दे चाऽनाशे ।३८५॥ अनाशार्थाद् विपूर्वात् कृगः कर्मण्यसति, शब्दे च कर्मणि 'कर्तर्यात्मनेपदम् स्यात् । विकुर्वते सैन्धवाः, क्रोधा विकुरुते स्वरान् । शब्दे चेति किम् ? विकरोति मृदम् । अनाश इति किम् ? विकरोत्यध्यायम् ॥८५॥
आडो यम-हनः, स्वेऽङ्गे च ॥३॥३॥८६॥ आङः पराभ्यां यम्-हन्भ्यां कर्मण्यसति, कर्तुः स्वङ्गे च कर्मणि 'कर्तर्या