________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अस्मात् कर्मणः परिधानेऽर्जने चार्थे 'णि वा' स्यात् । परिचीवरयते, संचीवरयते, (चीवरयते) ॥ ४१ ॥
१८७
णिज्बहुलं नाम्नः कृगादिषु | ३ | ४|४२ ||
कृगादीनां धातूनामर्थे 'नाम्नो णिच् बहुलम्' स्यात् । मुण्डं करोति = मुण्डयति च्छात्रम्, पटुमाचष्टे = पटयति, वृक्षं रोपयति = वृक्षयति, कृतं गृह्णाति=कृतयति ॥४२॥
व्रताद् भुजि - तत्रिवृत्त्योः | ३|४|४३॥
व्रतम् = शास्त्रविहितो नियमः, व्रताद् भुज्यर्थात् तत्रिवृत्त्यर्थाच्च कृगादिष्वर्थेषु 'णिज्बहुलम्' स्यात् । पयो व्रतयति, सावद्याऽनं व्रतयति ॥ ४३ ॥ सत्या - Sर्थ - वेदस्याः | ३ | ४|४४ ||
'एषां णिच्सन्नियोगे आः' स्यात् । सत्यापयति, अर्थापयति, वेदापयति ॥ श्वेताश्वा ऽश्वतर - गालोडिता ऽऽह्वरकस्याऽश्वतरेत-कलुक् |३|४|४५ ॥
'एषां णिज्योगे यथासंख्यमश्वादेः शब्दस्य लुक् स्यात् । श्वेतयति, अश्वयति, गालोडयति, आवरयति ||४५ ||
धातोरनेकस्वरादाम् परोक्षायाः, कृभ्वस्ति चानुतदन्तम्
|३|४|४६ ॥
अनेकस्वराद्धातोः परस्याः 'परोक्षायाः स्थाने आम् स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु पश्चादनन्तरं प्रयुज्यन्ते । चकासाञ्चकार, च्रकासाम्बभूव, चकासामास । अनेकस्वरादिति किम् ? पपाच । अनुविपर्यासव्यवहितिनिवृत्त्यर्थः, तेन चकारचकासाम्, ईहांचैत्रश्चक्रे इत्यादि न स्यात् ॥ ४६ ॥ दया- ऽया-SSस् - कासः | ३|४|४७॥
-