________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
११
नद्येषा, मध्वत्र, वध्वासनम्, पित्रर्थः, क्रादिः, लित्, लाकृतिः ॥२१॥
हस्वोऽपदे वा ॥१॥२॥२२॥ इवर्णादीनामस्वे स्वरे परे 'हस्वो वा' स्यात्, न चेत् ती निमित्त-निमित्तिनावेकत्र पदे स्याताम् । नदि एषा, नघेषा । मधु अत्र, मध्वत्र । अपद इति किम् ? नद्यौ, नद्यर्थः ॥२२॥
एदैतोऽयाय 1१।२।२३॥ एदैतोः स्वरे परे यथासंख्यम् 'अय्-आय' इत्येतौ स्याताम् । नयनम्, वृक्षयेव, नायकः, रायैन्द्री ॥२३॥
ओदौतोऽवान् ॥१॥२॥२४॥ ओदौतोः स्वरे परे यथासंख्यम् 'अव्-आव्' इत्येती स्याताम् । लवनम्, पटवोतुः, लावकः, गावी ॥२४॥
व्यक्ये 19॥२॥२५॥ ओदौतोः क्यवर्जे यादी प्रत्यये परे यथासंख्यम् 'अव्-आवी' स्याताम् । गव्यति, गव्यते, नाव्यति, नाव्यते, लव्यम्, लाव्यम् । अक्य इति किम् ? उपोयते, औयत ॥२५॥
ऋतो रस्तद्धिते ।१२।२६॥ ऋकारस्य यादौ तद्धिते परे 'र:' स्यात् । पित्र्यम् । तद्धित इति किम् ? कार्यम् ॥२६॥
एदोतः पदान्तेऽस्य लुक् ।।२।२७॥ एदोद्भ्यां पदान्तस्थाभ्यां परस्याऽकारस्य 'लुक् स्यात् । तेऽत्र, पटोऽत्र । पदान्त इति किम् ? नयनम् ॥२७॥
गोर्नाम्न्यवोऽक्षे ।।२।२८॥