________________
१०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
प्राऽवर्णस्य एषादिषु परेषु परेण स्वरेण सह 'ऐ-औ' स्याताम् । प्रैषः, प्रेष्यः, प्रौढः, प्रौढिः, प्रौहः ॥१४॥
स्वैर-स्वैर्यक्षौहिण्याम् ।१२।१५॥ स्वैरादिष्ववर्णस्य परेण स्वरेण सह 'ऐ-औ' स्याताम् । स्वैरः, स्वैरी, अक्षौहिणी सेना ॥१५॥
अनियोगे लुगेवे ।१।२।१६॥ अनियोगो अनवधारणम्, तद्विषये एवे परेऽवर्णस्य 'लुक्' स्यात् । इहेव तिष्ठ, अद्येव गच्छ; नियोगे तु, -इहैव तिष्ठ मा गाः ॥१६॥
वौष्ठौतौ समासे ।१२।१७॥ ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुंग वा' स्यात् । बिम्बोष्ठी, बिम्बोष्ठी; स्थूलोतुः, स्थूलौतुः । समास इति किम् ? हे पुत्रौष्ठं पश्य ॥१७॥
__ओमाङि ।१।२।१८॥ अवर्णस्य ओमि आङादेशे च परे 'लुक्' स्यात् । अद्योम्, सोम्, आ ऊढा, अद्योढा, सोढा ॥१८॥
आटा उपसर्गस्यानिणेधेदोति ।१२।१९॥ उपसर्गावर्णस्य इणेधिवर्जे एदादावोदादौ च धातौ परे 'लुक्' स्यात् । प्रेलयति, परेलयति; प्रोषति, परोषति । अनिणेधिति किम् ? उपैति, प्रेधते ॥१९॥
वा नाम्नि १।२।२०॥ नामावयवे एदादावोदादौ च धातौ परे उपसर्गावर्णस्य 'लुग वा' स्यात् । उपेकीयति, उपैकीयति; प्रोषधीयति, प्रौषधीयति ॥२०॥
इवणदिरस्वे स्वरे य-व-र-लम् ॥१॥२॥२१॥ इ-उ-ऋ-ल-वर्णानामस्वे स्वरे परे यथासंख्यं ‘य व र ल' इत्येते स्युः । दध्यत्र,