________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१७१ क्रमोऽनुपसर्गात् ॥३॥३॥४७॥ अविद्यमानोपसर्गात् क्रमतेः 'कर्तर्यात्मनेपदं वा' स्यात् । क्रमते, कामति । अनुपसर्गादिति किम् ? अनुक्रामति ॥४७॥
वृत्ति-सर्ग-तायने ।३।३।४८॥ वृत्तिः-अप्रतिबन्धः, सर्गः- उत्साहः, तायनम्- स्फीतता, एतद्वृत्तेः क्रमः 'कर्तर्यात्मनेपदम् स्यात् । शास्त्रेऽस्य क्रमते बुद्धिः, सूत्राय क्रमते, क्रमन्तेऽस्मिन् योगाः ॥४८॥
परोपात् ।३।३४९॥ आभ्यामेव परात् क्रमेवृत्त्याधर्थात् 'कर्तर्यात्मनेपदम् ' स्यात् । पराक्रमते, उपक्रमते । परोपादिति किम् ? अनुक्रामति । वृत्त्यादावित्येव - पराक्रामति ॥४९॥
वेः स्वार्थे ।३३३५०॥ स्वार्थः- पादविक्षेपः, तदर्थाद् विपूर्वात् क्रमेः 'कर्तर्यात्मनेपदम्' स्यात् । साधु विक्रमते गजः । स्वार्थ इति किम् ? गजेन विक्रामति ॥५०॥
प्रोपादारम्भे ॥३॥५१॥ आरम्भार्थात् प्रोपाभ्यां परात् क्रमेः 'कर्तर्यात्मनेपदम्' स्यात् । प्रक्रमते, उपक्रमते भोक्तुम् । आरम्भ इति किम् ? प्रक्रामति यातीत्यर्थः ॥५१॥
आडो ज्योतिरुद्गमे ।३।३।५२॥ आङः परात् क्रमेश्चन्द्राधुद्गमार्थात् 'कर्तर्यात्मनेपदम्' स्यात् । आक्रमते चन्द्रः सूर्यो वा । ज्योतिरुद्गम इति किम् ? आक्रामति बटुः कुतुपम्, धूम आक्रामति ॥५२॥
दागोऽस्वाऽऽस्यप्रसार-विकासे.३३३३५३॥